काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)
Kavyalankara of Acharya Bhamaha with Commentary
आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा
पृष्ठ 185, कुल 230 में से
संदर्भ में पढ़ें170 BHĀMAHĀLAṄKĀRA
उदूढशिशिरासारान् प्रावृषेण्यान् नभस्वतः ।
फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ॥ ३२ ॥
कला-संकलना प्रज्ञा शिल्पान्यस्याश्च गोचरः ।
विपर्यस्तं तथैवाहुस्तद्विरोधकरं यथा ॥ ३३ ॥
ऋषभात्पञ्चमस्तस्मात् सषड्जं धैवतं स्मृतम् ।
अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ॥ ३४ ॥
इति साधारितं मोहादन्यथैवावगच्छति ।
अन्यास्वपि कलास्वेवमभिधेया विरोधिता ॥ ३५ ॥
स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः ।
स च तद्व्यवहारोऽत्र तद्विरोधकरं यथा ॥ ३६ ॥
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।
प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ ३७ ॥
धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् ।
चकार जानुदघ्नापान् प्रतिदिङ्मुखमध्वनः ॥ ३८ ॥
न्यायः शास्त्रं त्रिवर्गोक्तिर्दण्डनीतिं च तां विदुः ।
अतो न्यायविरोधीष्टमपेतं यत्तया यथा ॥ ३९ ॥
विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।
तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ॥ ४० ॥
अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् ।
तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ॥ ४१ ॥
यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ॥ ४२ ॥