सामग्री पर जाएँ
सर्वकोश
काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

Kavyalankara of Acharya Bhamaha with Commentary

आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा

DevanagariHindipublished230 पृष्ठ

पृष्ठ 187, कुल 230 में से

संदर्भ में पढ़ें
पृष्ठ 187

पञ्चमः परिच्छेदः ।
अथ प्रतिज्ञाहेत्वादिहीनं दुष्टं च वर्ण्यते ।
समासेने यथान्यायं तन्मात्रार्थप्रतीतये ॥ १ ॥
प्रायेण दुर्बोधतया शास्त्राद्विभ्यत्यमेधसः ।
तदुपच्छन्दनायैष हेतुन्यायलवोच्चयः ॥ २ ॥
स्वादुकाव्यरसोन्मिश्रं शास्त्रमप्युपयुञ्जते ।
प्रथमलीढमधवः पिबन्ति कटु भेषजम् ॥ ३ ॥
न स शब्दो न तद्वाच्यं न स न्यायो न सा कला ।
जायते यन्न काव्याङ्गमहो भारो महान्कवेः ॥ ४ ॥
सत्त्वादयः प्रमाणाभ्यां प्रत्यक्षमनुमा च ते ।
असाधारणसामान्यविषयत्वं तयोः किल ॥ ५ ॥
प्रत्यक्षं कल्पनापोढं ततोऽर्थादिति केचन ।
कल्पनां नामजात्यादियोजनां प्रतिजानते ॥ ६ ॥
समारोपः किलैतावान्सदर्थालम्बनं च तत् ।
जात्याद्यपोहे वृत्तिः क क्व विशेषः कुतश्च सः ॥ ७ ॥
तदपोहेषु च तथा सिद्धा सा बुद्धिगोचरा ।
अवस्तुकं चेद्वितथं प्रत्यक्षं तत्त्ववृत्ति हि ॥ ८ ॥
ग्राह्यग्राहकभेदेन विज्ञानांशो मतो यदि ।
विज्ञानमात्रसादृश्याद्विशेषोऽस्य विकल्पना ॥ ९ ॥