सामग्री पर जाएँ
सर्वकोश
काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

काव्यालङ्कार (आचार्य भामह - भारतीय काव्यशास्त्र एवं अलङ्कार-सिद्धान्त मूल महाग्रन्थ सटीक)

Kavyalankara of Acharya Bhamaha with Commentary

आचार्य भामह (सम्पादक: पण्डित देवेन्द्रनाथ शर्मा) द्वारा

DevanagariHindipublished230 पृष्ठ

पृष्ठ 188, कुल 230 में से

संदर्भ में पढ़ें
पृष्ठ 188

FIFTH PARICCHEDA 173
अर्थादेवेति रूपादेस्तत एवेति नान्यतः ।
अन्यथा घटविज्ञानमन्येन व्यपदिश्यते ॥ १० ॥
त्रिरूपाल्लिङ्गतो ज्ञानमनुमानं च केचन ।
तद्विदो नान्तरीयार्थदर्शनं चापरे विदुः ॥ ११ ॥
विवादास्पदधर्मेण धर्मी कृतविशेषणः ।
पक्षस्तस्य च निर्देशः प्रतिज्ञेत्यभिधीयते ॥ १२ ॥
तदर्थहेतुसिद्धान्तसर्वागमविरोधिनी ।
प्रसिद्धधर्मा प्रत्यक्षबाधिनी चेति दुष्यति ॥ १३ ॥
तयैव हि तदर्थस्य विरोधकरणं यथा ।
यतिर्भम पिता बाल्यात्सूनुर्यस्याहमौरसः ॥ १४ ॥
अस्त्यात्मा प्रकृतिर्वेति ज्ञेया हेत्वपवादिनी ।
धर्मिणोऽस्याप्रसिद्धत्वात्तद्धर्मोऽपि न सेत्स्यति ॥ १५ ॥
शाश्वतोऽशाश्वतो वेति प्रसिद्धे धर्मिणि ध्वनौ ।
जायते भेदविषयो विवादो वादिनोर्मिथः ॥ १६ ॥
स्वसिद्धान्तविरोधित्वाद्विज्ञेया तद्विरोधिनी ।
कणभक्षो यथा शब्दमाचक्षीताविनश्वरम् ॥ १७ ॥
सर्वशास्त्रविरुद्धत्वात्सर्वागमविरोधिनी ।
यथा शुचिस्तनुस्त्रीणि प्रमाणानि न सन्ति वा ॥ १८ ॥
आकुमारमसंदिग्धधर्माहितविशेषणा ।
प्रसिद्धधर्मेति मता श्रोत्रग्राह्यो ध्वनिर्यथा ॥ १९ ॥
प्रत्यक्षबाधिनी तेन प्रमाणेनैव बाध्यते ।
यथा शीतोऽनलो नास्ति रूपमुष्णः क्षपाकरः ॥ २० ॥