सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 87, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 87

४० ॥ काशिका ॥ १ ॥ ४ ॥
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि
मध्यमः ॥ १०५ ॥
लस्येत्यधिकृत्य सामान्येन तिङादयो विहितास्तेषामयं पुरुषनियमः
क्रियते । युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समा-
नाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमाने ऽप्यप्रयुज्यमानेऽपि मध्यमपुरुषो भव-
ति । त्वं पचसि । युवां पचथः । यूयं पचथ । अप्रयुज्यमानेऽपि । पचसि ।
पचथः । पचथ ॥
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १०६ ॥
प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपु-
रुषो भवति, मन्यतेश्चोत्तमः स चैकवद्भवति । एहि मन्ये ओदनं भोक्ष्यस इति,
नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, नहि यास्यसि,
यातस्तेन ते पिता । मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते । प्रहा-
स इति किम् । एहि मन्यसे ओदनं भोक्ष्य इति । सुष्ठु मन्यसे, साधु मन्यसे ॥
अस्मद्युत्तमः ॥ १०७ ॥
उत्तमपुरुषो नियम्यते । अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयु-
ज्यमानेपि उत्तमपुरुषो भवति । अहं पचामि । आवां पचावः । वयं पचामः ।
अप्रयुज्यमानेपि । पचामि । पचावः । पचामः ॥
शेषे प्रथमः ॥ १०८ ॥
शेष इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समानाधि-
करणे उपपदे न स्तः तत्र शेषे प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ॥
परः संनिकर्षः संहिता ॥ १०९ ॥
परशब्दो ऽतिशये वर्तते । संनिकर्षः प्रत्यासत्तिः । परो यः संनिकर्षो
वर्णानामर्धमात्राकालव्यवधानं स संहितासंज्ञो भवति । दध्यत्र । मध्वत्र ।
संहिताप्रदेशास्संहितायामित्येवमादयः ॥
विरामो ऽवसानम् ॥ ११० ॥
विरतिर्विरामः । विरम्यतेनेनेति वा विरामः । सोऽवसानसंज्ञो भवति ।
दधि । मधु । वृक्षः । प्लक्षः । अवसानप्रदेशाः खरवसानयोर्विसर्जनीय इत्येवमादयः ॥
इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ
प्रथमाध्यायस्य चतुर्थः पादः ॥
समाप्तश्चाध्यायः ॥ शुभम् ॥