काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 88, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ । १ ॥ ८१
॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥
समर्थः पदविधिः ॥ १ ॥
परिभाषेयम् । यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो वेदि-
तव्यः । विधीयतइति विधिः । पदानां विधिः पदविधिः । स पुनः समा-
सादिः । समर्थः शक्तः, विवक्षितार्थाभिधाने यः शक्तः स समर्थो वेदि-
तव्यः । अथ वा समर्थपदाश्रयत्वात् समर्थः । समर्थानां पदानां सम्बद्धार्थानां
संसृष्टार्थानां विधिर्वेत्तव्यः । वक्ष्यति, “द्वितीया श्रितातीतपतितगतात्यस्त-
प्राप्तापन्नैः” । कष्टं श्रितः, कष्टश्रितः । समर्थग्रहणं किम् । पश्य देवदत्त कष्टं,
श्रितो विष्णुमित्रो गुरुकुलम् । “तृतीया तत्कृतार्थेन गुणवचनेन” । शङ्कुलया
खण्डः, शङ्कुलाखण्डः । समर्थग्रहणं किम् । करिष्यसि शङ्कुलया, खण्डो देव-
दत्त उपले ॥ “चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः” । यूपाय दारु, यूप-
दारु । समर्थग्रहणं किम् । गच्छ त्वं यूपाय, दारु देवदत्तस्य गेहे । “पञ्चमी
भयेन” । वृकेभ्यो भयं, वृकभयम् । समर्थग्रहणं किम् । गच्छ त्वं मा वृकेभ्यो,
भयं देवदत्तस्य यज्ञदत्तात् । “षष्ठी” । राज्ञः पुरुषो, राजपुरुषः । समर्थग्रहणं
किम् । भार्या राज्ञः, पुरुषो देवदत्तस्य । “सप्तमी शौण्डैः” । अक्षेषु शौण्डः,
अक्षशौण्डः । समर्थग्रहणं किम् । शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे ।
पदग्रहणं किम् । वर्णविधौ समर्थपरिभाषा मा भूत् । तिष्ठतु दध्य,शान त्वं
शाकेन । तिष्ठतु कुमारी,च्छत्रं हर देवदत्तात् । यणादेशो नित्यश्च
तुग्भवति ॥
सुबामन्त्रिते पराङ्गवत्स्वरे ॥ २ ॥
सुबन्तमामन्त्रिते परतः परस्याङ्गवद्भवति, स्वरे, स्वरलक्षणे कर्तव्ये ।
तादात्म्यातिदेशोऽयम् । सुबन्तमामन्त्रितमनुप्रविशति । वक्ष्यति । “आमन्त्रि-
तस्य च” । आमन्त्रितस्यादिरुदात्तो भवति । स ससुप्कस्यापि यथा स्यात् ।
कुण्डेनाटन् । परशुना वृश्चन् । मद्राणां राजन् । काश्मीराणां राजन् । सुबिति
किम् । पीडे पीड्यमान । आमन्त्रितइति किम् । गेहे गार्ग्यः । परवचनं
किम् । पूर्वस्य मा भूत् । देवदत्त कुण्डेनाटन् । अङ्गग्रहणं किम् । यथा वृत्ति-
षष्ठीभूतः स्वरं लभेत । उभयोराद्युदात्तत्वं मा भूत् । वत्करणं किम् । स्वाश्र-
यमपि यथा स्यात् । आं कुण्डेनाटन् । “आम एकान्तरमामन्त्रितमनन्तिके”-
इत्येकान्तरता भवति । स्वरइति किम् । कूपे सिञ्चन् । चर्म नमन् । षत्वणत्वे
प्रति पराङ्गवन्न भवति । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यान-
६