सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 86, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 86

॥ काशिका ॥ १ । ४ ॥ ७९
लः परस्मैपदम् ॥ ९९ ॥
ल इति षष्ठी सादेशापेक्षा । लादेशाः परस्मैपदसंज्ञा भवन्ति । तिप्,
तस्, झि । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च । परस्मैपदप्रदेशाः
सिचि वृद्धिः परस्मैपदेष्वित्येवमादयः ॥
तङानावात्मनेपदम् ॥ १०० ॥
तङिति प्रत्याहारो नवानां वचनानाम् । आन इति शानच्कानचोर्ग्र-
हणम् । पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते ।
त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनः खल्व-
पि । शानच्कानचौ । ल इत्येव । कतीह निघ्नानाः । आत्मनेपदप्रदेशा अनु-
दात्तङित आत्मनेपदमित्येवमादयः ॥
तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ १०१ ॥
तिङोऽष्टादश प्रत्ययाः नव परस्मैपदसंज्ञकाः नवात्मनेपदसंज्ञकाः तत्र
परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति । आत्मनेप-
देष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति । तिप्, तस्, झि, इति
प्रथमः । सिप्, थस्, थ, इति मध्यमः । मिप्, वस्, मस्, इत्युत्तमः । आत्म-
नेपदेषु त, आतां, झ, इति प्रथमः । थास्, आथाम्, ध्वम्, इति मध्यमः । इट्,
वहि, महिङ्, इत्युत्तमः । प्रथममध्यमोत्तमप्रदेशाः शेषे प्रथम इत्येवमादयः ॥
तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १०२ ॥
तान्येकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति * एकशः एकैकं पदम् ।
तिबित्येकवचनम् । तसिति द्विवचनम् । झि इति बहुवचनम् । एवं सर्वत्र ।
एकवचनद्विवचनबहुवचनप्रदेशाः बहुषु बहुवचनमित्येवमादयः ॥
सुपः ॥ १०३ ॥
तिङां त्रिकेष्वेकवचनादिसंज्ञा विहिताः संप्रति सुपां त्रिकेषु विधीयन्ते ।
सुपश्च त्रीणित्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति ।
सु इत्येकवचनम् । औ इति द्विवचनम् । जसिति बहुवचनम् । एवं सर्वत्र ॥
विभक्तिश्च ॥ १०४ ॥
त्रीणित्रीणीत्यनुवर्तते । त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्ति-
ङश्च । विभक्तिप्रदेशा अष्टन आ विभक्तावित्येवमादयः ॥

  • तानि तिङस्त्रीणित्रीणि भूत्वैकवचनद्विवचनबहुवचनसंज्ञानि भवन्तीत्यपि क्व चि-
    त्पाठः ।