सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 85, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 85

९८ ॥ काशिका ॥ १ ॥ ४ ॥
चये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति । अभिमन्युरर्जुनतः
प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥
अधिपरी अनर्थकौ ॥ ९३ ॥
अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः ।
कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीय-
संज्ञा विधीयते ॥
सुः पूजायाम् ॥ ९४ ॥
सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति । सु सिक्तं भवता । सु
स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसंज्ञाश्रयं षत्वं न भवति । पूजाया-
मिति किम् । सुषिक्तं किं तवात्र ॥
अतिरतिक्रमणे च ॥ ९५ ॥
अतिशब्दः अतिक्रमणे चकारात्पूजायां च कर्मप्रवचनीयसंज्ञो भवति । नि-
न्द्येऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम् । अति सिक्तमेव भवता । अति स्तुतमेव भ-
वता । पूजायाम् । अति सिक्तं भवता । अति स्तुतं भवता । शोभनं कृतमित्यर्थः ॥
अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ॥ ९६ ॥
पदार्थे संभावने ऽन्ववसर्गे गर्हायां समुच्चये च वर्तमानः अपिः कर्मप्र-
वचनीयसंज्ञो भवति । पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः । सर्पिषोऽपि स्यात् ।
मधुनोऽपि स्यात् । मात्रा बिन्दुः स्तोकमित्यस्यार्थे ऽपिशब्दो वर्तते । संभाव-
नमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम् । अपि सिञ्चेन्मूलकसहस्रम् ।
अपि स्तुयाद्राजानम् । अन्ववसर्गः कामचारानुज्ञा । अपि सिञ्च । अपि
स्तुहि । गर्हा निन्दा । धिग्जाल्मं देवदत्तमपि सिञ्चेत्पलाण्डुम् । अपि स्तुया-
द्वृषलम् । समुच्चये । अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उप-
सर्गसंज्ञाबाधनात् षत्वं न भवति ॥
अधिरीश्वरे ॥ ९७ ॥
ईश्वरः स्वामी स च स्वमपेक्षते । तदयं स्वस्वामिसंबन्ध कर्मप्रवचनीय-
संज्ञो भवति । तत्र कदा चित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति
कदा चित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥
विभाषा कृञि ॥ ९८ ॥
अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति । यदत्र मामधिक-
रिष्यति । कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि चोदात्तवतीति
निघातो न भवति ॥