सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 686, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 686

सीत् । व्यरंसिष्टाम् । व्यरंसिषुः । अनंसीत् । अनंसिष्टाम् । अनंसिषुः । आका-
रान्तानाम् । अयासीत् । अयासिष्टाम् । अयासिषुः । यमादीनां हलन्तलक्षणा
वृद्धिः प्राप्ता सा नेटीति प्रतिषिध्यते । परस्मैपदेष्वित्येव । अय॑स्त । व्यरंस्त ।
अनंस्त ॥
स्मिपूङ्‌ऋञ्ज्वशां सनि ॥ ७४ ॥
स्मिङ् पूङ् ऋ ऋञ्ज् अशू इत्येतेषां धातूनां सनीडागमो भवति ।
सिस्मयिषते । पिपविषते । अरिरिषति । ऋञ्जिजिषति । अशिशिषते । ङका-
रग्रहणं पूञो मा भूत् । पुपूषति इत्येव तस्य भवति । अशेश्च ऋदितो यङ्बाध-
नार्थानित्यामिडागमोऽस्त्येव ॥
किरश्च पञ्चभ्यः ॥ ७५ ॥
किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति । कॄ । चिकरिषति । गॄ ।
जिगरिषति । दृङ् । दिदरिषते । धॄङ् । दिधरिषते । प्रच्छ् । पिपृच्छिषति ।
पञ्चभ्य इति किम् । सिसृक्षति । किरतिगिरत्यारिट् सनि वेति विकल्पः
प्राप्तः वृतो वेति वास्येटो दीर्घत्वं नेच्छन्ति ॥
रुदादिभ्यः सार्वधातुके ॥ ७६ ॥
रुदादिभ्य उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति । रुद् ।
रोदिति । स्वप् । स्वपिति । श्वस् । श्वसिति । अन् । प्राणिति । जक्ष् ।
जक्षिति । पञ्चभ्य इत्येव । जागर्त्ति । सार्वधातुकइति किम् । स्वप्ता । वलादे-
रित्येव । रुदन्ति ॥
ईशः से ॥ ७७ ॥
ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति । ईशिषे ।
ईशिष्य ॥
ईडजनोर्ध्वे च ॥ ७८ ॥
ईड् जन इत्येताभ्यामुत्तरस्य ध्वे इत्येतस्य से इत्येतस्य च सार्वधातु-
कस्य इडागमो भवति । ईडिध्वे । ईडिध्वम् । ईडिषे । ईडिष्व । जनिध्वे ।
जनिध्वम् । जनिषे । जनिष्व । जनी प्रादुर्भावइत्यस्य छान्दसत्वात् श्यनो
लुक् उपधालोपाभावश्च ॥ जन जननइत्यस्यापि श्लुविकरणस्य ग्रहणमिष्यते ॥
तस्य कर्मव्यतिहारे व्यतिजज्ञिषे । व्यतिजज्ञिष्व । व्यतिजज्ञिध्वे व्यतिजज्ञि-
ध्वम्, इति च भवति ॥ ध्वस्येह ईशेरपि इडागम इष्यते ॥ ईशिध्वमिति,
तदर्थं के चिदीडिजनेोः सूत्रे चेति सूत्रं पठन्ति । तत्र सकारादेः सेशब्दस्य
सूत्रएवोपादानाच्छ्वब्दो भिन्नकर्महेतुकश्चाऽयं विज्ञायते । ईडिशिजनां