काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 687, कुल 828 में से
संदर्भ में पढ़ें३८६ ॥ काशिका ॥ ७ । २ ॥
सेध्ययोरित्येकमेव सूत्रं न पठितं, विवक्षा हि सूत्रस्य कृतिः पाणिनेरिति ।
ध्वे इति कृतटेरेत्त्वस्य ग्रहणात् लङि ध्वमि न भवितव्यमिटा । लोटि पुनरेक-
देशविकृतस्यानन्यत्वाद् भवितव्यमिटा ॥
लिङः सलोपो ऽनन्त्यस्य ॥ ७९ ॥
सार्वधातुकइति वर्तते * । सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सका-
रस्य लोपो भवति । कः पुनरनन्त्यो लिङः सकारः । यो यासुट्सुट्सीयुटाम् ।
कुर्यात् । कुर्याताम् । कुर्युः । कुर्वीत । कुर्वीयाताम् । कुर्वीरन् । अनन्त्यस्येति
किम् । कुर्युः । कुर्याः । सार्वधातुकइत्येव । क्रियास्ताम् । क्रियासुः । कृषीष्ट ।
कृषीयास्ताम् । कृषीरन् ॥
अतो येयः ॥ ८० ॥
अकारान्तादङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इय इत्यादेशो
भवति । पचेत् । पचेताम् । पचेयुरित्यत्रोस्यपदान्तादिति पररूपं बाधितम् ।
अतः इति किम् । चिनुयात् । सुनुयात् । तपरकरणं किम् । यायात् । सार्वधा-
तुकइत्येव । चिकीर्ष्यात् । ननु चातो लोपेनात्र भवितव्यम् । पचेदित्यत्रापि
हि तर्हि अतो दीर्घो यञीति दीर्घत्वेन भवितव्यम् । तदनेनावश्यं विध्यन्तरं
बाधितव्यम् । स यथैव दीर्घस्य बाधक एवमतो लोपस्यापि बाधकः स्यात् ।
स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते । अय तु तिङि विधीयते, तदा
येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यान्न पुनरतो लोपस्य । येय इत्यवि-
भक्तिको निर्देशः, य इति वा षष्ठीनिर्देशे यलोपस्यासिद्धत्वमनाश्रित्यानुदा-
त्ततः सौत्रत्वाद्निर्देशस्येति । के चिद् अचातो यासिय इति सूत्रं पठन्ति । तेषां
सकारान्तः स्थानो षष्ठीसमासश्च ॥
आतो ङितः ॥ ८१ ॥
आकारस्य ङिदवयवस्य आकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इय्
इत्ययमादेशो भवति । पचेते । पचेथे । पचेताम् । पचेथाम् । यजेते । यजेथे ।
यजेथाम् । सार्वधातुकमपिद्वित्यत्र न ङितीव ङिद्वदित्येवमङ्गीक्रियते ऽपितु ङित
एव ङिद्वदिति पूर्वसूत्रएव उच्छुकुटिषतीतिप्रसिद्ध्यर्थं तथाङ्गीकरणम् । यदि
गाङ्कुटादिसूत्रे ङिद्वतीत्येवमङ्गीक्रियते तदा अनुदात्तङित आत्मनेपदमिति
आत्मनेपदं प्राप्नोतीति । आत इति किम् । पचन्ति । यजन्ति । पचन्ते । यजन्ते ।
ङित इति किम् । पचावहै । पचामहै । आत इत्येव । चिन्वाते । सुन्वाते ।
तपरकरणं किम् । मिमाते । मिमाथे ॥
- सार्वधातुकइति वर्ततइत्येकस्मिन्पुस्तके नास्ति ।