सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 685, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 685

६९४ ॥ काशिका ॥ ७ ॥ २ ॥
ग्रहणमिह न क्रियते तदा द्विवेचनात् परत्वाद् घसिभसोर्हलि चेति उपधालोपे
कृते द्विवचनमेव न स्यादनच्कत्वाद्, इह तु घसिग्रहणाद् उपधालोपमपि
परत्वादिटागमो बाधते । तत्र कृते गमहनजनखनघसामित्युपधालोपः । स च
द्विवेचनेऽचीति द्विवेचने कर्तव्ये स्थानिवद्भवति, तेन जक्षिवानिति सिध्यति ॥
विभाषा गमहनविदविशाम् ॥ ६८ ॥
गम हन विद विश इत्येतेषां धातूनां वसो विभाषा इडागमो भवति ।
गम । जगमिवान् । जगन्वान् । मो नो धातोरिति नकारः । हन । जघ्निवान् ।
जघन्वान् । विद । विविदिवान् । विविद्वान् । विश । विविशिवान् । विविश्वान् ।
विशिना । साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् । ज्ञानार्थस्य तु
नित्यं विविद्वानित्येव भवति ॥ दृशेश्चेति वक्तव्यम् ॥ * ॥ ददृशिवान् । ददृश्वान् ॥
सनिंससनिवांसम् ॥ ६९ ॥
सनोतेः सनतेर्वा धातोः सनिंससनिवांसमिति निपात्यते* । वाञ्जि-
त्वाग्ने सनिंससनिवांसम् । इडागम एत्वाभ्यासनोपाभावश्च निपात्यते । सनि-
ङ्पूर्वादन्यत्र सेमिवांसमित्येव भवति । छन्दसोदं निपातनं विज्ञायते† ।
भाषायां सेनिवांसमिति भवति ॥
ऋद्धनोः स्ये ॥ ७० ॥
ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति । करिष्यति । हनि-
ष्यति । हरिष्यति । स्वृतेर्वृतत्वादृद्धनोः स्यइत्येतद्भवति विप्रतिषेधेन । स्वरि-
ष्यति । तपरकरणं विस्पष्टार्थम् ॥
अञ्जेः सिचि ॥ ७१ ॥
अञ्जेः सिचि इडागमो भवति । आञ्जीत । आञ्जिष्टाम् । आञ्जिषुः ।
सिचीति किम् । आङ्क्ता । अङ्क्षिता । उदित्वाद् विभाषा भवति ॥
स्तुसुधूञ्भ्यः परस्मैपदेषु ॥ ७२ ॥
स्तु सु धूञ् इत्येतेभ्यः सिचि परस्मैपदे परतः इडागमो भवति । अस्ता-
वीत् । असावीत् । अधावीत् । परस्मैपदेष्विति किम् । अस्तोष्ट । असोष्ट ।
अधोष्ट । अधविष्ट ॥
यमरमनमातां सक् च ॥ ७३ ॥
यम रम नम इत्येतेषामङ्गानामाकारान्तानां च सकागमो भवति पर-
स्मैपदे सिचि इडागमश्च । यम् । अयंसीत् । अयंसिष्टाम् । अयंसिषुः । अरं-

  • सनिङ्पूर्वस्य सनोतेः सनतेर्वा सनिंससनिवांसमिति निपात्यते इत्येकस्मिन्पुस्तके पाठः
    † इयं चानुपूर्वी छन्दस्येव विद्यतेति छन्दसोदं निपातनं विज्ञायते इति वा० ग्र० ।