काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 670, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ २ ॥ ॥ ६६९
सिद्धोरिड्भवत्येव । बोधिता । सेधिता । निष्ठायामपि प्रतिषेधाभावात् बुधितं
सिधितमित्येव भवति ।
शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम् ।
इमान्दशैषोपद्दिशन्त्यनिड्विधौ गणेषु षान्तान्कृषिकर्षती तथा ॥
शेष्टा । पेष्टा । शोष्टा । पोष्टा । त्वेष्टा । वेष्टा । श्लेष्टा । तोष्टा ।
दोष्टा । द्वेष्टा । आक्रष्टा । आकर्षा । रूपेस्तौदादिकस्य भौवादिकस्य कृषि-
कर्षती इति निर्देशः ।
तर्पि तृपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम् ।
स्वरेण नीचेन शपिं क्षुपिं क्षिपिं प्रतीहि पान्तान्यठितांस्त्रयोदश ॥
तप्ता । तेप्ता । आप्ता । वप्ता । स्वप्ता । लेप्ता । लोप्ता । तृप्यतिदृ-
प्यत्य