काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 669, कुल 828 में से
संदर्भ में पढ़ेंमूदन्तम् । लविता । भविता । उतां च रुस्रुवौ तुवन्तयोर्वोतियौ युगुत्थावः ।
रविता । प्रसविता । तविता । प्रोर्णविता । वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः
प्रयोजनमित्यतिदेशादेकाच्त्वमूर्लोतेरस्तीति उदात्त उपदिश्यते । यविता ।
नविता । क्लाविता ।
इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत ।
शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेषु वसिः प्रसारणी ॥
घसिः प्रकृत्यन्तरमस्ति । घस्ता । वसिः प्रसारणी । वस्ता । प्रसार-
णीति किम् । वसिता वस्त्राणाम् । वसनिवासवृत्त्यस्य यजादित्वात्संप्रसारणं
विहितं, न तु वस आच्छादनवृत्त्यस्य ।
रभिस्तु भान्तेष्वथ मेधुने यभिस्ततस्तृतीयो लभिरैव नेतरै ।
आरब्धा । यब्धा । लब्धा ।
यमिर्यमन्तेष्वनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मनिः ।
नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम् ॥
यन्ता । रन्ता । तन्ता । मन्ता । श्यनीति किम् । मनुतेर्मनितेत्येव
भवति । नन्ता । हन्ता । गन्ता ।
दिहिर्दुहिर्मेहतिरोहती वहिर्नहिश्च षष्ठो दहनिस्तथा लिहिः ।
इमे ऽनिटोष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्त्तिताः ॥
देग्धा । दोग्धा । मोढा । रोढा । वोढा । नद्धा । दग्धा । लेढा ।
मुक्तसंशया इति किम् । तन्त्रान्तरे चत्वारो ऽपरे पठ्यन्ते । सहिर्मुहिरिहिलुहय,-
स्तत्र सहेरिट्विकल्पस्तकारादौ । मुहिरपि रधादौ । तेन तौ संशयो सविकल्पौ ।
इतरौ तु धातुषु न पठ्येते । कैश्चिदभ्युपगम्येते इति स्वरूपेणैव संशया ॥
दिशिं दृशं दंशमथो मृशं स्पृशं रिशं स्रृशं क्रोशतिमष्टमं विशिम् ।
लिशं च शान्ताननिटः पुरातनाः पठन्ति पाठेषु दशैव नेतरान् ॥
देष्टा । द्रष्टा । दंष्टा । आम्रष्टा । आम्रष्टा । स्रष्टा । स्पृष्टा । ऋदुप-
धानामुदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्यान्यतरस्या-
मिति रमागमविकल्पः । रष्टा । रोष्टा । क्रोष्टा । प्रवेष्टा । लेष्टा ।
रुधिः सराधियुंधिबन्धिसाधयः क्रुधिक्षुधौ शुध्यतिबुध्यती व्यधिः ।
इमे तु धान्ता दश येऽनिटो मतास्ततः परं छिद्भिदिरेव नेतरै ॥
रोद्धा । राद्धा । योद्धा । बंद्धा । साद्धा । क्रोद्धा । क्षोद्धा । शोद्धा ।
बोद्धा । व्यद्धा । सेद्धा । बुद्ध्यतिसिद्ध्यत्योः श्यना निर्देशादन्यविकरणयोर्बुद्धि-