काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 671, कुल 828 में से
संदर्भ में पढ़ें६४० ॥ काशिका ॥ ७ ॥ २ ॥
णीत् । वृद्धिनिवृत्त्यर्थमदन्तो वधिरुपदिश्यते । उपदेशग्रहणं किम् । रह हि
यथा स्यात् लविष्यति पविष्यति । रह च मा भूत् । कत्तो कटाङ्कसैमिति ॥
श्र्युकः किति ॥ ११ ॥
श्रि इत्येतस्योगन्तानां च किति प्रत्यये परत इडागमो न भवति ।
श्रित्वा । श्रितः । श्रितवान् । उगन्तानां च । युत्वा । युतः । युतवान् ।
लूत्वा । लूनः । लूनवान् । वृत्वा । वृतः । वृतवान् । तीर्त्वा । तीर्णः । तीर्ण-
वान् । श्र्युक इति किम् । विदितः । कितीतिक्किम् । श्रयिता । श्रयितुम् ।
श्रयितव्यम् । के चिदत्र द्विककारनिर्देशेन मकारप्रश्लेषं वर्णयन्ति । भूम्सुरित्येवं
यथा स्यात् । सौत्रत्वाच्च निर्देशस्य श्युकः कितीत्यत्र चर्त्वस्यासिद्धत्वमना-
श्रित्य रोरुत्वं न कृतं विसर्जनीयश्च