सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 630, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 630

॥ काशिका ॥ ६ ॥ ४ ॥ ६२६
श्नसोरल्लोपः ॥ १११ ॥
श्नस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । इन्धः ।
इन्धन्ति । भिन्तः । भिन्दन्ति । आस्तेः । स्तः । सन्ति । क्ङितीत्येव ।
भिनत्ति । अस्ति । श्नसोरिति पररूपं शकन्ध्वादिषु द्रष्टव्यम् ॥
श्नाभ्यस्तयोरातः ॥ ११२ ॥
श्ना इत्येतस्याभ्यस्तानां चाङ्गानामाकारस्य लोपो भवति सार्वधातुके
क्ङिति परतः । लुनीते । लुनताम् । अलुनत * । अभ्यस्तानाम् । मिमते ।
मिमताम् । अमिमत । संजिहते । संजिहताम् । समजिहत । श्नाभ्यस्तयोरिति
किम् । यान्ति । वान्ति । आत इति किम् । बिभ्रति । क्ङितीत्येव । अलु-
नात् । अजहात् ॥
ई ह्ल्यघोः ॥ ११३ ॥
श्नान्तानामङ्गानामभ्यस्तानां च घुवर्जितानामात ईकारादेशो भवति
हलादौ सार्वधातुके क्ङिति परतः । लुनीतः । पुनीतः । लुनीथः । पुनीथः ।
लुनीते । पुनीते । अभ्यस्तानाम् । मिमीते । मिमीषे । मिमीध्वे । संजिहीते ।
संजिहीषे । संजिहीध्वे । हलीति किम् । लुनन्ति । मिमते । अघोरिति किम् ।
दत्तः । धत्तः । क्ङितीत्येव । लुनाति । जहाति ॥
इद्दरिद्रस्य ॥ ११४ ॥
दरिद्रातेर्हलादौ सार्वधातुके क्ङिति परत इकारादेशो भवति । दरि-
द्रितः । दरिद्रिथः । दरिद्रिवः । दरिद्रिमः । हलीत्येव । दरिद्रति । क्ङिती-
त्येव । दरिद्राति ॥ दरिद्रातेरार्धधातुके लोपो वक्तव्यः ॥ * ॥ सिट्ठुश्व प्रत्यय-
विधौ भवतीति वक्तव्यम् ॥ * ॥ दरिद्रातीति दरिद्रः । आकारान्तलक्षणो
णप्रत्ययो न भवति पचादित्वादजेव भवति ।
न दरिद्रायके लोपो दरिद्राणे च नेष्यते ।
दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥
अद्यातन्यां † वेति वक्तव्यम् ॥ * ॥ अदरिद्रीत् । अदरिद्रासीत् । दरि-
द्रस्येति निर्देशे छान्दसं ह्रस्वत्वं द्रष्टव्यम् ॥
भियो ऽन्यतरस्याम् ॥ ११५ ॥
भी इत्येतस्याङ्गस्यान्यतरस्यामिकारादेशो भवति हलादौ क्ङिति
सार्वधातुके परतः । बिभितः । बिभीतः । बिभिथः । बिभीथः । बिभिवः ।

  • पुनते पुनताम् । अपुनत । इत्यधिकं पुस्तकान्तरे ।
    † लुङ् एषा पूर्वाचार्यसंज्ञा ।