काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 629, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 629
६२८ ॥ काशिका ॥ ६ ॥ ४ ॥
चिणो लुक् ॥ १०४ ॥
चिण उत्तरस्य प्रत्ययस्य लुग्भवति । अकारि । अहारि । अलावि ।
अपाचि । अकारितराम्, अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न
लुग्भवति, चिणो लुगित्येतद्विषयभेदाद्विज्ञायते ॥
अतो हेः ॥ १०५ ॥
अकारान्तादङ्गादुत्तरस्य हेर्लुग्भवति । पच । पठ । गच्छ । धाव । अत
इति किम् । युहि । रहि । तपरकरणं किम् । लुनीहि । पुनीहि । ईत्वस्या-
सिद्धत्वादाकार एव भवति ॥
उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०६ ॥
उकारो यो ऽसंयोगपूर्वस्तदन्तात्प्रत्ययादुत्तरस्य हेर्लुग्भवति । चिनु ।
सुनु । कुरु । उत इति किम् । लुनीहि । सुनीहि । प्रत्ययादिति किम् । रुहि ।
गुहि । असंयोगपूर्वादिति किम् । आप्नुहि । रा