काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 631, कुल 828 में से
संदर्भ में पढ़ें६३० ॥ काशिका ॥ ६ ॥ ४ ॥
बिभीवः । बिभीमः । बिभीमः । हलीत्येव । बिभ्यति । क्ङितीत्येव ।
बिभेति । सार्वधातुकइत्येव । भीयते * ॥
जहातेश्च ॥ ११६ ॥
जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधा-
तुके परतः । जहितः । जहीतः । जहिथः । जहीथः । हलादावित्येव ।
जहति । क्ङितीत्येव । जहाति । सार्वधातुकइत्येव । हीयते । जेहीयते † ।
पृथग्योगकरणमुत्तरार्थम् ॥
आ च हौ ॥ ११७ ॥
जहातेराकारश्चान्तादेशो भवति इकारश्चान्यतरस्यां हौ परतः ।
जहाहि । जहिहि । जहीहि ॥
लोपो यि ॥ ११८ ॥
लोपो भवति जहातेर्यकारादौ क्ङिति सार्वधातुके परतः । जह्यात् ।
जह्याताम् । जह्युः ॥
घ्वंसोरेद्धावभ्यासलोपश्च ॥ ११९ ॥
घुसंज्ञकानाम् अङ्गानामस्तेश्च एकारादेशो भवति हौ परतो ऽभ्यासलो-
पश्च । देहि । धेहि । अस्तेः । श्नसोरल्लोप इत्यकारलोपः । एधि । शिदयं
लोपस्तेन सर्वस्याभ्यासस्य भवति ॥
अत एकहल्मध्ये ऽनादेशादेर्लिटि ॥ १२० ॥
लिटि परतः आदेश आदिर्यस्याङ्गस्य नास्ति तस्य एकहल्मध्ये असहाय-
योर्हलोर्मध्ये यो ऽकारस्तस्य एकारादेशो भवति अभ्यासलोपश्च लिटि
क्ङिति परतः । रेजतुः । रेजुः । येमतुः । येमुः । पेचतुः । पेचुः । देभतुः ।
देभुः । अत इति किम् । दिदिवतुः । दिदिवुः । तपरकरणं किम् । ररासे ।
ररासाते । ररासिरे । एकहल्मध्यइति किम् । ररक्षतुः । ररक्षुः ‡ । तत्स-
रतुः । तत्सरुः । अनादेशादेरिति किम् । चकणतुः । चकणुः । जगाणतुः । बभ-
णतुः । जगणुः । बभणुः । लिट आदेशविशेषणं किम् । इहापि यथा स्यात् ।
नेमतुः । नेमुः । सेहे । नेहाते । सेहिरे । अनैमित्तिके णत्वषत्वे तदादिर्लिं-
त्यादेशादिर्न भवति । द्वहल्भ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति । तेन तदादि-
- हलीत्येवेत्यारभ्य भीयतइत्यन्तं बहुषु पुस्तकेषु नास्ति । युक्तं चैतत्, पदमञ्जर्य्यां
हलादौ क्ङिति सार्वधातुकइत्येतेषां नात्रोपयोग इत्युक्तत्वात् ।
† सार्वधातुके इत्येव हीयते जेहीयते, इत्येतत्पुस्तकेषु बहुषु नास्ति । पदमञ्जर्य्यां
नास्योपयोग इत्युक्ततयेदमेव युक्तम् ।
‡ इदमयुक्तं संयोगात्परत्वेन लिटः कित्त्वाभावात् ॥