सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 620, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 620

॥ काशिका ॥ ६ ॥ ४ ॥ ६१९
अयामन्ताल्वाय्येत्न्विष्णुषु ॥ ५५ ॥
आम् अन्त आलु आय्य इत्नु ष्णु इत्येतेषु परतो णेरयादेशो भवति ।
कारयांचकार । हारयांचकार । अन्त । गणयन्तः । मण्डयन्तः । आलु ।
स्पृहयालुः । आय्य । स्पृहयाय्यः । गृहयाय्यः । इत्नु । स्तनयित्नुः । इष्णु । पोष-
यिष्णवः * । नेति वक्तव्ये अयादेशवचनमुत्तरार्थम् ॥
ल्यपि लघुपूर्वात् ॥ ५६ ॥
ल्यपि परतो लघुपूर्वादुत्तरस्य णेरयादेशो भवति । प्रशमय्य गतः ।
संदमय्य गतः । प्रवेभिदय्य गतः । प्रगणय्य गतः । ह्रस्वलोपाल्लोपानामसि-
द्धत्वं न भवत्यसमानाश्रयत्वात् । ह्रस्वादयो हि णौ ल्यपि णेरयादेशो भवति ।
लघुपूर्वादिति किम् । प्रपात्य गतः ॥
विभाषा ऽऽपः ॥ ५७ ॥
आप उत्तरस्य णेर्ल्यपि परतो विभाषा ऽयादेशो भवति । प्रापय्य गतः ।
प्राप्य गतः । इहादेशस्य लाक्षणिकत्वाच्च भवति । आप्याय्य गतः ॥
युप्लुवोर्दीर्घश्छन्दसि ॥ ५८ ॥
यु प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति । दान्त्यनुपूर्वं
वियूय । यन्ना यो दक्षिणा परिप्लूय । छन्दसीति किम् । संयुत्य । आप्लुत्य ॥
क्षियः ॥ ५९ ॥
क्षियश्च दीर्घो भवति ल्यपि परतः । प्रक्षीय ॥
निष्ठायामण्यदर्थे ॥ ६० ॥
ण्यतः कृत्यस्यार्थो भावकर्म्मणी ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो
दीर्घो भवति । आक्षीणः । प्रक्षीणः । परिक्षीणः । अकर्म्मकत्वात् क्षियः कर्त्तरि
क्तः । प्रक्षीणमिदं देवदत्तस्येति क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य
इत्यधिकरणे क्तः । अण्यदर्थेति किम् । क्षित्तमसि मामेतेष्ठाः । क्षितमिति
भावे दीर्घाभावात् क्षियो दीर्घादिति निष्ठानत्वमपि न भवति ॥
वा ऽऽक्रोशदैन्ययोः ॥ ६१ ॥
आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति ।
क्षितायुरेधि । क्षीणायूरेधि । दैन्ये । क्षितकः । क्षीणकः । क्षितोयं तपस्वी ।
क्षीणोयं तपस्वी ॥

  • पारयिष्णव इत्यधिकं पुस्तकान्तरे ।