काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 619, कुल 828 में से
संदर्भ में पढ़ें६१८ ॥ काशिका ॥ ६ ॥ ४ ॥
वृत्तता ॥ वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन ॥ * ॥ चिकीर्षकः । जिही-
र्षकः । चिकीर्ष्यते । जिहीर्ष्यते ॥
यस्य हलः ॥ ४९ ॥
हल उत्तरस्य यशब्दस्यार्द्धधातुके लोपो भवति । बेभिदिता । बेभिदि-
तुम् । बेभिदितव्यम् । यस्येति संघातग्रहणमेतत् । तन्नालोन्त्यस्येत्येतन्न भव-
त्यतो लोप इत्यनेनैव तस्य सिद्धत्वात् । हल इति वा पञ्चमीनिर्देशस्तत्रादेः
परस्येति यकारोनेन लुप्यते । संघातग्रहणं किम् । इय्यिता । मय्यिता । हल
इति किम् । लोलूयिता । पोपूयिता ॥
क्यस्य विभाषा ॥ ५० ॥
क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्द्धधातुके । समिध्यिता ।
समिधिता । दृषद्यिता । दृषदिता । समिधमात्मन इच्छति, समिधइवाचरति,
इति वा क्यच्क्यङौ यथायोगं कर्त्तव्यौ ॥
णेरनिटि ॥ ५१ ॥
अनिडादावार्द्धधातुके णेर्लोपो भवति । इयङयण्गुणवृद्धिदीर्घाणामप-
वादः । अततक्षत् । अररक्षत् । आशिशत् । आटिटत् । कारणा । हारणा ।
कारकः । हारकः । कार्यते । हार्यते । जीप्सति । अनिटीति किम् । कार-
यिता । हारयिता ॥
निष्ठायां सेटि ॥ ५२ ॥
निष्ठायां सेटि परतो णेर्लोपो भवति । कारितम् । हारितम् । गणि-
तम् । लक्षितम् । सेटीति किम् । संज्ञपितः पशुः । इड्ग्रहणसामर्थ्यादिह
पूर्वेणापि न भवति । सनीवन्तर्द्धति ज्ञपेरिटि विकल्पिते यस्य विभाषेति
निष्ठायां प्रतिषेधः । अथ पुनरेकाच इति तत्रानुवर्त्तते तदा नित्यमत्र भवित-
व्यमेवेडागमेनेति । सेड्ग्रहणमनर्थकं तत् क्रियते कालावधारणार्थम् इडागमे
कृते णिलोपो यथा स्यात् । अकृते हि तत्र णिलोपे सति कारितमित्यत्र
एकाच उपदेशे ऽनुदात्तादितीटः प्रतिषेधः प्रसज्येत ॥
जनिता मन्त्रे ॥ ५३ ॥
जनितेति मन्त्रविषये इडादौ णिलोपो निपात्यते । यो नः पिता
जनिता । मन्त्रइति किम् । जनयिता ॥
शमिता यज्ञे ॥ ५४ ॥
यज्ञकर्मणि शमितेति इडादौ णिलोपो निपात्यते । शतं हविः
शमितः । शुचि संबुद्ध्यन्तमेतत् । यज्ञइति किम् । शतं हविः शमयितः ॥