सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 621, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 621

६२० ॥ काशिका ॥ ६ । ४ ॥
स्यसिच्सीयुट्टासिषु भावकर्मणोरुपदेशे ऽज्झन-
ग्रहदृशां वा चिण्वदिट् च ॥ ६२ ॥
स्य सिच् सीयुट् तासि इत्येतेषु भावकर्मविषयेषु परतः उपदेशे ऽज-
न्तानामङ्गानां हन् ग्रह दृश् इत्येतेषां च चिण्वत्कार्यं भवति वा । यदा
चिण्वत् तदा इडागमो भवति । कस्य । स्यसिच्सीयुट्टासीनामेवेति वेदित-
व्यम् । ते हि प्रकृताः । अङ्गस्य तु लक्ष्यविरोधान्न क्रियते । कानि पुनरस्य
योगस्य प्रयोजनानि ॥
चिण्वद् वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणोति ।
इट् चाशिष्टस्तेन मे लुप्यते णिर्नित्यञ्चायं वन्निमित्तोविघाती ॥
अजन्तानां तावत् । चायिष्यते । चेष्यते । अचायिष्यत । अचेष्यत ।
दायिष्यते ।