काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 511, कुल 828 में से
संदर्भ में पढ़ें५१० ॥ काशिका ॥ ६ ॥ १ ॥
तृतीयासमासे ऽवर्णाद् वृद्धिर्वक्तव्या ॥ * ॥ सुखेन ऋतः, सुखार्तः । दुःखेन ऋतो,
दुःखार्तः । ऋत इति किम् । सुखेन इतः सुखेतः । तृतीयेति किम् । परमर्त्तः ।
समासइति किम् । सुखेनर्त्तः ॥ प्रवत्सतरकम्बलवसनानामृणे वृद्धिर्वक्तव्या ॥ * ॥ प्र ।
प्रार्णम् । वत्सतर । वत्सतरार्णम् । कम्बल । कम्बलार्णम् । वसन । वसनार्णम् ॥
ऋणदशाभ्यां वृद्धिर्वक्तव्या ॥ * ॥ ऋणार्णम् । दशार्णम् ॥
आटश्च ॥ ९० ॥
एचीति निवृत्तम् । अचीत्यनुवर्त्तते । आटः परो यो ऽच् अचि च पूर्वो
य आट् तयोः पूर्वपरयोरादचोः स्थाने वृद्धिरेकादेशो भवति । ऐतिष्ठत् । ऐधत ।
ऐक्षिष्यत । औभीत । आर्द्धीत् । औञ्जीत । चकारो ऽधिकविधानार्थ उस्योमा-
ङोश्च पररूपबाधनार्थः । औक्षीयत् । औकारीयत् । या ऊढा वोढा, तामै-
क्षत, औढीयत् ॥
उपसर्गादृति धातौ ॥ ९१ ॥
आदित्येव । अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने
वृद्धिरेकादेशो भवति । आद्गुणापवादः । उपार्च्छति । प्रार्च्छति । उपार्ध्नोति ।
उपसर्गादिति किम् । खट्वर्च्छति । मालर्च्छति । प्रगता ऋच्छका यस्माद्देशात्,
प्रर्च्छको देशः । यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका इति । ऋतीति
किम् । उप इत, उपेतः । तपरकरणं किम् । उप ऋकारीयति । उपल्कारीयति ।
वा सुप्यापिशलेरिति विकल्पः स्यात् । उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातु-
ग्रहणं शाकलानिवृत्त्यर्थम् । ऋत्यक इति हि शाकल्यस्य प्रकृतिभावः प्राप्नोति ॥
वा सुप्यापिशलेः ॥ ९२ ॥
आदित्येव । उपसर्गादृति धाताविति च । सुबन्तात्प्रत्यये धातावृका-
रादौ परतो ऽवर्णान्तादुपसर्गात्पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेका-
देशो भवति । उपर्षभीयति । उपार्षभीयति । उपल्कारीयति । उपाल्कारीयति ।
ऋकारऌकारयोः सावर्ण्यविधिरिति ऋतीति ऌकारोपि गृह्यते । आपिशलि-
ग्रहणं पूजार्थम् । वेति ह्युच्यतएव ॥
औतो ऽम्शसोः ॥ ९३ ॥
ओतो ऽमि शसि च परतः पूर्वपरयोराकार आदेशो भवति । गां
पश्य । गाः पश्य । द्यां पश्य । द्याः पश्य । द्योशब्दोऽप्योकारान्त एव विद्यते,
ततोपि परं सर्वनामस्थानं स्विदिष्यते, तेन नाप्राप्तायां वृद्धावयमाकारो विधी-
यमानस्तां बाधते । अमिति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात् सुपीति
चाधिकारात् । तेनाचिनवममुनवमित्यत्र न भवति ॥