सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 512, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 512

॥ काशिका ॥ ६ । १ ॥ ५११
एङि पररूपम् ॥ ९४ ॥
आदित्येव, उपसर्गाद्धाताविति च । अवर्णान्तादुपसर्गादेङादौ धातौ पूर्व-
परयोः पररूपमेकादेशो भवति । वृद्धिरेचीत्यस्यापवादः । उपेलयति । प्रेलयति ।
उपोषति । प्रोषति । केचित्तु। सुप्पापिशलेरित्यनुवर्तयन्ति तद्वाक्यभेदेन सुब्धातौ
विकल्पं करोति । उपेडकीयति । उपैडकीयति । उपोदनीयति ॥ उपौदनीयति
शकन्ध्वादिषु पररूपं वक्तव्यम् ॥ * ॥ शक अन्धुः, शकन्धुः । कुल अटा,
कुलटा ॥ सीमन्तः केशेषु ॥ सीम्नो ऽन्तः, सीमन्तः । अन्यत्र सीमान्तः ॥ एवे
चानियोगे पररूपं वक्तव्यम् ॥ * ॥ इह एव, इहैव । अद्य एव, अद्येव । अनि-
योगइति किम् । इहैव भव मा ऽन्यत्र गाः ॥ ओत्वोष्ठयोः समासे वा पररूपं