सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 430, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 430

॥ काशिका ॥ ५ ॥ २ ॥ ३२९
विद्यन्ते, तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे प्रत्यये पुनर्वचनमण्बा-
ध्यमानेन बाधा मा भूदिति । सहस्रात्तु ठन्नपि बाध्यते ॥
अण् च ॥ १०३ ॥
तपःसहस्राभ्यामण्प्रत्ययो भवति । तापसः । साहस्रः । योगविभाग
उत्तरार्थो, यथासंख्यौर्थश्च ॥ अण्प्रकरणे ज्योत्स्नादिभ्य उपसंख्यानम् ॥ * ॥
ज्योत्स्ना विद्यन्ते । ऽस्मिन्नर्थे, ज्योत्स्नः पक्षः । तामिस्रः । कौण्डिनः । कौतपः ।
वैसर्पः । वैयादिकः ॥
सिकताशर्कराभ्यां च ॥ १०४ ॥
सिकताशर्कराभ्यामण्प्रत्ययो भवति मत्वर्थे । सैकतो घटः । शार्करं मधु ।
अदेश इहोदाहरणम् । देशे तु लुबिलचौ भविष्यतः ॥
देशे लुबिलचौ च ॥ १०५ ॥
सिकताशर्कराभ्यां देशे ऽभिधेये लुबिलचौ भवतः । चकारादण् च,
मतुप् च । कस्य पुनरयं लुप् । मतुबादीनामन्यतमस्य, विशेषाभावात् । सिकता
अस्मिन्विद्यन्ते सिकता देशः । सिकतिलः । सैकतः । सिकतावान् । शर्करा
देशः । शर्करिलः । शार्करः । शर्करावान् । देशइति किम् । सैकतो घटः ।
शार्करं मधु ॥
दन्त उन्नत उरच् ॥ १०६ ॥
उन्नत इति प्रकृतिविशेषणम् । दन्तशब्दादुन्नतोपाधिकादुरच् प्रत्ययो
भवति मत्वर्थे । दन्ता उन्नता चास्य सन्ति, दन्तुरः । उन्नत इति किम् । दन्तवान् ॥
ऊषसुषिमुष्कमधो रः ॥ १०७ ॥
ऊष सुषि मुष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे । ऊषरं क्षेत्रम् ।
सुषिरं काष्ठम् । मुष्करः पशुः । मधुरो गुडः ॥ इतिकरणो विवक्षार्थः सर्वत्रा-
भिधेयनियमं करोति । इह न भवति । ऊषो ऽस्मिन् घटे विद्यते मध्वस्मि-
न्घटे विद्यते इति ॥ रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम् ॥ * ॥ खमस्यास्ति
कण्ठविवरं महत्, खरः । मुखमस्यास्तीति सर्वस्मिन्वक्तव्ये, मुखरः । कुञ्जावप्य-
स्तः कुञ्जरः । हस्तिहनू कुञ्जशब्देनोच्येते ॥ नगपांसुपाण्डुभ्यश्चेति वक्तव्यम् ॥ * ॥
नगरम् । पांसुरम् । पाण्डुरम् ॥ कच्छा ह्रस्वत्वं च ॥ * ॥ कच्छुरम् ॥
कुद्रुभ्यां मः ॥ १०८ ॥
कुद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे कुमः । द्रुमः । रूढिशब्दा-
वेतौ । रूढिषु च न मतुब्विकल्प्यते ॥