काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 429, कुल 828 में से
संदर्भ में पढ़ें४२८ ॥ काशिका ॥ ५ ॥ २ ॥
गलूलः ॥ जटाघटाकालाः क्षेपे ॥ जटालः । घटालः । सक्थि । कर्ण । स्नेह ।
शीत । श्याम । पिङ्ग । पित्त । शुष्क । पृथु । मृदु । मज्जु । पत्र । चटु
कपि । कण्डु । संज्ञा ॥ क्षुद्रजन्तूपतापाच्चेष्यते ॥ क्षुद्रजन्तुः । यूकालः । मक्षि-
कालः ॥ उपतापाच्च ॥ विचर्चिकालः । विपादिकालः । मूर्च्छालः । सिध्मादिः
वत्सांसाभ्यां कामबले ॥ ९८ ॥
वत्सांसशब्दाभ्यां लच्प्रत्ययो भवति यथासंख्यं कामवति बलवति चार्थे
वत्सलः । अंसलः । वृत्तिविषये वत्सांसशब्दौ स्वभावात्कामबलयोर्वर्तेते
तद्गुति प्रत्ययमुत्पादयतः । नह्यत्र वत्सार्थो ऽसार्थो वा विद्यते, वत्सल इति
स्नेहवानुच्यते । वत्सलः स्वामी । वत्सलः पितेति । अंसल इति चोपचित-
मांसो बलवानुच्यते । न चायमर्थो मतुपि संभवतीति नित्यं लजेव भवति
अन्यत्रांसवती गौः । अंसवान् दुर्बलः ॥
फेनादिलच्च ॥ ९९ ॥
फेनशब्दादिलच् प्रत्ययो भवति मत्वर्थे । चकाराल्लच्च । अन्यतरस्यां
ग्रहणं मतुप्समुच्चयार्थं सर्वत्रैवानुवर्त्तते । फेनिलः । फेनलः । फेनवान् ॥
लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ १०० ॥
लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासंख्यं
श न इलच् इत्येते प्रत्यया भवन्ति मत्वर्थे, मतुप् च । लोमादिभ्यः शो भवति
लोमशः । लोमवान् । पामादिभ्यो नो भवति । पामनः । पामवान् । पिच्छा-
दिभ्य इलच् भवति । पिच्छिलः । पिच्छवान् । उरसिलः । उरस्वान् । लोमन्
रोमन् । वल्गु । बभ्रु । हरि । कपि । शुनि । तरु । लोमादिः ॥ पामन् । वामन्
हेमन् । श्लेष्मन् । कटु । बलि । श्रेष्ठ । पलल । सामन् । अङ्गात्कल्याणे
शाकी पलाली दद्रूवां ह्रस्वत्वं च ॥ विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः लस्य
ऋच्च ॥ पामादिः ॥ पिच्छ । उरस् ध्रुवका । तुवका ॥ जटाघटाकालात्क्षेपे
वर्णे । उदक । पङ्क । प्रज्ञा । पिच्छादिः ॥
प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः ॥ १०१ ॥
प्रज्ञा श्रद्धा ऽर्चा वृत्ति इत्येतेभ्यो णः प्रत्ययो भवति मत्वर्थे । मतुप्
चैव समुच्चीयते । प्राज्ञः । प्रज्ञावान् । श्राद्धः । श्रद्धावान् । आर्चः । अर्च्चावान्
वार्त्तः । वृत्तिमान् ॥
तपःसहस्राभ्यां विनीनी ॥ १०२ ॥
तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतो मत्वर्थे ॥ --
यार्थयोस्तु यथासंख्यं सर्वत्रैवास्मिन् प्रकरणे नेष्यते ॥ तपो ऽस्यास्तिन्