सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 431, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 431

४३० ॥ काशिका ॥ ५ ॥ २ ॥
केशाद्वो ऽन्यतरस्याम् ॥ १०९ ॥
केशशब्दाद्वः प्रत्ययो भवति मत्वर्थे ऽन्यतरस्याम् । ननु च प्रकृतमन्य-
तरस्यांग्रहणमनुवर्तेतैव मतुप्समुच्चयार्थं तदित्युकम् । अनेन त्विनिठनौ
प्राप्येते । ततश्चातूरूप्यं भवति । केशवः । केशी । केशिकः । केशवानिति ॥
वप्रकरणे ऽन्येभ्योपि दृश्यतइति वक्तव्यम् ॥ * ॥ मणिवः । हिरण्यवः । कर-
रावः कुमारवः । राजीवम् । कुञ्जावः । इष्टकावः * ॥ अर्णसो लोपश्च ॥ * ॥
अर्णवः ॥ छन्दसीवनिपौ च वक्तव्यौ ॥ * ॥ वश्च मतुप् च । रथीरभून्मुद्गलानी
गविष्टौ । सुमङ्गलीरियं वधूः । वनिप् । मघवानमीमहे । वकारमतुपौ च उद्गौ
च । उद्गुती च ॥ मेधारथाभ्यामिरचिरचौ वक्तव्यौ ॥ * ॥ मेधिरः । रथिरः ॥
गाण्ड्यजगात्संज्ञायाम् ॥ ११० ॥
गाण्डी अजग इत्येताभ्यां वः प्रत्ययो भवति संज्ञायां विषये मत्वर्थे ।
गाण्डीवं धनुः । अजगवं धनुः । ह्रस्वादापि भवति । गाण्डिवं धनुरिति । तुल्या
हि संहिता दीर्घह्रस्वयोः । उभयथा च सूत्रं प्रणीतम् ॥
काण्डाण्डादीरन्नी रचौ ॥ १११ ॥
काण्ड अण्ड इत्येताभ्यां यथासंख्यमीरचीरचौ प्रत्ययौ भवतो मत्वर्थे ।
काण्डीरः । अण्डीरः ॥
रजः कृष्यासुतिपरिषदो वलच् ॥ ११२ ॥
रजःप्रभृतिभ्यः प्रातिपदिकेभ्यो वलच् प्रत्ययो भवति मत्वर्थे । रजस्वला
स्त्री । कृषीवलः कुटुम्बी । आसुतीवलः शौण्डिकः । परिषद्बलोराजा । वलदति
दीर्घत्वम् । इतिकरणो विषयनियमार्थः सर्वत्र संबध्यते । तेनेह न भवति । रजो-
स्मिन् ग्रामे विद्यतइति ॥ वलच्प्रकरणे ऽन्येभ्योपि दृश्यतइति वक्तव्यम् ॥ * ॥
भ्रातृवलः । पुत्रवलः । उत्साहवलः † ॥
दन्तशिखात्संज्ञायाम् ॥ ११३ ॥
दन्तशिखाशब्दाभ्यां वलच् प्रत्ययो भवति मत्वर्थे संज्ञायां विषये ।
दन्तावलः सैन्यः । दन्तावलो गजः । शिखावलं नगरम् । शिखावला स्थूणा ॥
ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमि-
न्मलिनमलीमसाः ॥ ११४ ॥
ज्योत्स्नादयः शब्दा मत्वर्थे निपात्यन्ते मत्वर्थे संज्ञायां विषये । ज्यो-
तिष उपधालोपो नश्च प्रत्ययो निपात्यते । ज्योत्स्ना चन्द्रप्रभा । तमस । उप-

  • बिम्बाव इत्युदाहरणमन्यत्राधिकम् ।
  • उत्साहवल इत्यधिकं पुस्तकान्तरे ।