सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 327, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 327

३२२ ॥ काशिका ॥ ४ ॥ २ ॥
यनकः । तदवधिरपि जनपद एव गृह्यते न ग्रामः । किमर्थं तर्हि ग्रहणं, बाध-
कबाधनार्थं गर्त्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति । नैर्गर्त्तकः ॥
अवृद्धादपि बहुवचनविषयात् ॥ १२५ ॥
जनपदतदवध्योरित्येव । अवृद्धाद्वृद्धाच्च जनपदात्तद्वधिवाचिनश्च बहु-
वचनविषयात्प्रातिपदिकाद्वुञ् प्रत्ययो भवति शैषिकः । अण्कञ्योरपवादः ।
अवृद्धाज्जनपदात्तावत् । अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः ।
कालिङ्गकः । अवृद्धाज्जनपदावधेः । अजमीढाः । अजक्रन्दाः । आजमीठकः ।
आजक्रन्दकः । वृद्धाज्जनपदात् । दार्वीः । जाम्ब्वः । दार्वकः । जाम्ब्वकः ।
वृद्धाज्जनपदावधेः । कालञ्जराः । वैकुलिशाः । कालञ्जरकः । वैकुलिशकः ।
विषयग्रहणमन्यत्र भावार्थम् । जनपदैकशेषबहुत्वे मा भूत् । वर्तन्यः ।
वार्त्तनः * । अपिग्रहणं किम् । यावता वृद्धात्पूर्वेणैव सिद्धं तक्रकौण्डिन्यन्या-
येन बाधा मा विज्ञायीति समुच्चीयते ॥
कच्छाग्निवक्त्रगर्त्तोत्तरपदात् ॥ १२६ ॥
देशइत्येव । उत्तरपदशब्दः प्रत्येकमभिसंबध्यते । कच्छाद्युत्तरपदाद्देश-
वाचिनः प्रातिपदिकाद्वृद्धादवृद्धाच्च वुञ् प्रत्ययो भवति शैषिकः । काद्यो-