सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 326, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 326

॥ काशिका ॥ ४ ॥ २ ॥ ३२१
ओर्देशे ठञ् ॥ ११९ ॥
वृद्धादिति नानुवर्त्तते । उत्तरसूत्रे पुनर्वृद्धग्रहणात् । उवर्णान्ताद् देश-
वाचिनः प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः । नैवादर्कुकः । शाबर-
जम्बुकः * । देश इति किम् । पटोश्छात्राः, पाटवाः । ठञिठञोः प्रकरणे ठञः
केवलस्यानुवृत्तिर्न लभ्यत इति ठञ्ग्रहणं कृतम् ॥
वृद्धात्प्राचाम् ॥ १२० ॥
ओर्देशे इत्येव । उवर्णान्ताद् वृद्धात्प्राग्देशवाचिनः प्रातिपदिकाट्ठञ्
प्रत्ययो भवति शैषिकः । आढकजम्बुकः । शाकजम्बुकः † । नापितवासुकः ।
पूर्वेणैव ठञि सिद्धे नियमार्थं वचनं वृद्धादेव प्राचामवृद्धाच्च भवतीति । मल्ल-
वास्तु । माल्लवास्त्वः ॥
धन्वयोपधाद्बुञ् ॥ १२१ ॥
वृद्धादिति वर्तते, देशइति च । धन्ववाचिनो यकारोपधाच्च देशाभि-
धायिनो वृद्धात्प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः । धन्वशब्दो मरुदेश-
वचनः । पारेधन्वकः । ऐरावतकः । योपधात् । सांकाश्यकः । काम्पिल्यकः ॥
प्रस्थपुरवहान्ताच्च ॥ १२२ ॥
वृद्धादित्येव, देशइति च । अन्तशब्दः प्रत्येकमभिसंबद्ध्यते । प्रस्थ पुर
वह इत्येवमन्ताद्देशवाचिनः प्रातिपदिकाद्वृद्धाद्वुञ् प्रत्ययो भवति शैषिकः ।
ञस्यापवादः । मालाप्रस्थकः । नान्दीपुरकः । कान्तीपुरकः । पैलुवहकः ।
फाल्गुनीवहकः । पुरान्तो रोपधस्तत उत्तरसूत्रेणैव सिद्धमप्रागर्थमिह ग्रहणम् ॥
रोपधेतोः प्राचाम् ॥ १२३ ॥
वृद्धादित्येव, देशइति च । तद्विशेषणं प्राग्ग्रहणम् । रोपधादीकारा-
न्ताच्च प्राग्देशवाचिनो वृद्धाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्यापवादः । पाट-
लिपुत्रकः । एकचक्रकः । ईतः खल्वपि । काकन्दी । काकन्दकः । माकन्दी ।
माकन्दकः । प्राचामिति किम् । दात्तामित्रीयः । तपरकरणं विस्पष्टार्थम् ॥
जनपदतदवध्योश्च ॥ १२४ ॥
वृद्धादित्येव, देशइति च । तद्विशेषणं जनपदतदवधी । वृद्धाज्जनपद-
वाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद्बुञ् प्रत्ययो भवति शैषिकः । ञस्याप-
वादः । आभिसारकः । आर्देशकः । जनपदावधेः खल्वपि । चौपुष्टकः । श्यामा-

  • केष इति कृत्य इत्याधिकमेकस्मिन्पुस्तके ।
    † शाकलजम्बुक इति पा० २ ।
    २१