काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 287, कुल 828 में से
संदर्भ में पढ़ें२८२ ॥ काशिका ॥ ४ । १ ॥
अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ११३ ॥
वृद्धिर्यस्याचामादिस्तद्वृद्धम् । अवृद्धाभ्य इति शब्दधर्मः । नदीमानुषीभ्य
इत्यर्थधर्मः, तेनाभेदात्प्रकृतयो निर्दिश्यन्ते । तन्नामिकाभ्य इति सर्वनाम्ना
प्रत्ययप्रकृतेः प्रत्यवमर्शः । अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि
तेभ्यो ऽपत्ये ऽण्प्रत्ययो भवति । ढको ऽपवादः । यमुनाया अपत्यं यामुनः ।
इरावत्या अपत्यम्, ऐरावतः । वैतस्तः । नार्मदः । मानुषीभ्यः खल्वपि ।
शिकिताया अपत्यं, शैक्तितः । चिन्तिताया अपत्यं, चैन्तितः । अवृद्धाभ्यः किम् ।
चान्द्रभाग्याया अपत्यं, चान्द्रभागेयः । वासवदत्तेयः । नदीमानुषीभ्य इति किम् ।
सौपर्णेयः । वैनतेयः । तन्नामिकाभ्य इति किम् । शोभनायाः, शौभनेयः ॥
ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ११४ ॥
ऋषयः प्रसिद्धा वसिष्ठादयः । अन्धका वृष्णयः कुरव इति वंशाख्या ।
ऋष्यादिकुरुन्तेभ्यः प्रातिपदिकेभ्यो ऽपत्ये ऽण्प्रत्ययो भवति, ञो ऽपवादः ।
ऋष्यादिभ्यस्तु परत्वादृगादिभिरेव भवितव्यम् । ऋषिभ्यस्तावत् । वासिष्ठः ।
वैश्वामित्रः । अन्धकेभ्यः । श्वाफल्कः । रान्धसः । वृष्णिभ्यः । वासुदेवः ।
आनिरुद्धः । कुरुभ्यः । नाकुलः । साहदेवः । कथं पुनर्न्नित्यानां शब्दानामान्ध-
कादिवंशसमाश्रयणेनान्वाख्यानं युज्यते । के चिदाहुः । कथमपि काकतालीयन्या-
येन कुत्रचिद्वंशेष्वसंकरेणैव नकुलसहदेवादयः शब्दास्सुबहवः संकलितास्तानू-
पादाय पाणिनिना स्मृतिरुपनिबद्धेति । अथ वा ऽन्धकवृष्णिकुरुवंशा अपि नित्या
एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादय, स्तन्नेदं प्रत्ययविधानमित्यदोषः ॥
मातुरुत्संख्यासंभद्रपूर्वायाः ॥ ११५ ॥
मातृशब्दात्संख्यापूर्वात्संपूर्वाद्भद्रपूर्वाच्चापत्ये ऽण् प्रत्ययो भवति, उका-
रश्चान्तादेशः । द्वयोर्मातोरपत्यं, द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्र-
मातुरः । उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेणैव सिद्धः । स्त्रीलिङ्गनिर्देशो
ऽर्थोपेशः, तेन धान्यमातुर्यहणं न भवति । संख्यासंभद्रपूर्वाया इति किम् ।
सोमात्रः । शुभादिषु पाठात्तु वैमात्रेयः ॥
कन्यायाः कनीन च ॥ ११६ ॥
कन्याशब्दादपत्ये ऽण्प्रत्ययो भवति ढकोऽपवादः । तत्सन्नियोगेन कनी-
नशब्द आदेशो भवति । कन्याया अपत्यं, कानीनः कर्णः । कानीनो व्यासः ॥
विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥ ११७ ॥
विकर्णशुङ्गच्छगलशब्देभ्यो यथासंख्यं वत्सभरद्वाजात्रिष्वपत्यविशेषेष्व-
णप्रत्ययो भवति । वैकर्णो भवति वात्स्यश्चेत् । वैकर्णेरन्यः । शौङ्गो भवति