सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 288, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 288

॥ काशिका ॥ ४ । १ ॥ २८३
भारद्वाजश्चेत्। शौङ्गिरन्यः। छागलो भवत्यात्रेयश्चेत्। छागलिरन्यः। शुङ्गा-
शब्दं स्त्रीलिङ्गमन्थे पठन्ति ततो ढकं प्रत्युदाहरन्ति शौङ्गेय इति। द्वयमपि
चैतत्प्रमाणमुभयथा सूत्रप्रणयनात् ॥
पीलाया वा ॥ ११८ ॥
तस्यामिकाणो बाधके ष्ठाच् इति ढकि प्राप्ते ऽण्प्रत्ययः पक्षे विधीयते।
पीलाया अपत्ये वाऽण्प्रत्ययो भवति। पीलाया अपत्यं, पैलः। पैलेयः ॥
ढक्च मण्डूकात् ॥ ११९ ॥
मण्डूकशब्दादपत्ये ढक् प्रत्ययो भवति। चकारादण् च वा। तेन
त्रैरूप्यं भवति। माण्डूकेयः। माण्डूकः। माण्डूकिः ॥
स्त्रीभ्यो ढक् ॥ १२० ॥
स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्यो ऽपत्ये ढक्
प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह
न भवति। एडबिडो ऽपत्यं, दरदो ऽपत्यम्, ऐडबिडः, दारद, इति ॥ वड-
वाया वृषे वाच्ये ॥ * ॥ वाडवेयो वृषः स्मृतः। अपत्ये प्राप्तस्ततो ऽण्प्रत्ययश्च
विधीयते, तेनापत्ये वाडव इति भवति ॥ अण् क्रुञ्चाकोकिलात्स्मृतः ॥ * ॥
क्रुञ्चाया अपत्यं, क्रौञ्चः। कौकिलः ॥
द्व्यचः ॥ १२१ ॥
स्त्रीभ्य इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तस्यामि-
कायोपवादः। दत्ताया अपत्यं, दात्तेयः। गौपेयः। द्व्यच इति किम्। यामुनः ॥
इतश्चानिञः ॥ १२२ ॥
स्त्रीग्रहणं निवृत्तम्। चकारो द्व्यच इत्यस्यानुकर्षणार्थः। इकारान्ता-
त्प्रातिपदिकादनिञन्तादपत्ये ढक् प्रत्ययो भवति। बाचेयः। नैधेयः। इत
इति किम्। दात्तिः। प्रात्तिः। अनिञ इति किम्। दाक्षायणः। प्लाक्षायणः।
द्व्यच इत्येव। मरीचेरपत्यं, मारीचः ॥
शुभादिभ्यश्च ॥ १२३ ॥
शुभ इत्येवमादिभ्यः प्रातिपदिकेभ्यो ढक् प्रत्ययो भवति। यथायोग-
मिञादीनामपवादः। शौभेयः। वैष्टपुरेयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगण-
तामस्य बोधयति। गार्हेयः पाण्डवेय इत्येवमादि सिद्धं भवति। शुभ। विष्ट-
पुर । ब्रह्मकृत । शतद्वार । शतावर । शलाका । शालाचल । शलाकाछू ।
लेलागू । विमातृ । विधवा । शुकसा । रोहिणी । इकिली । दिशा । शालूक ।
अजवस्ति । शकन्धि ॥ ततस्तस्यामयोर्वासिद्धे ॥ गोधा । हकूलाष । सबीव ।