काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 286, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ । १ ॥ २८५
वात । कुल । पवित्र । गोमिन् । श्याम । धूम । धूम्र । वाग्मिन् । विखाजर ।
कुष्ठ । वेश । आत्रेय । नप्त । सङ्घ । नड । योध । कार्ण । विश्वावसु । विशाला ।
गिरि । चपल । चुनभ । ह्रासक । वैल्य । धर्म । चानडुह्य । पुंसिजात ।
अर्जुन । शूद्रक । सुमनस् । दुर्मनस् । शान्त । प्राच्य । कित । काण । शुण्ठ ।
अविष्टा । बीह्य । पविन्दा ॥ आत्रेयभारद्वाजे ॥ कुत्स । गातव । कितव ।
शिव । खदिर ॥ भरद्वाज आत्रेये * ॥
भर्गात्तैगर्त्ते ॥ १११ ॥
भर्गशब्दादपत्ये विशेषे त्रैगर्तें गोत्रे फञ् प्रत्ययो भवति । भार्गायणो
भवति त्रैगर्तश्चेत् । भार्गिरन्यः ॥
शिवादिभ्योऽण् ॥ ११२ ॥
'गोत्रे' इति निवृत्तम् । अतः प्रभृति सामान्येन प्रत्यया विधीयन्ते । शिवा-
दिभ्यो ऽपत्ये ऽण् प्रत्ययो भवति । यथायथमञादीनामपवादः । शैवः ।
प्रौष्ठः । तक्षन् शब्दो ऽत्र पठ्यते कारिततक्ष्णमुदीचामिञं बाधितुम् । वयत्प्रत्य-
यस्य तु बाधो नेष्यते । ताक्ष्णः । ताक्ष्णायः । गङ्गाशब्दः पठ्यते तिकादिकिञा
शुभ्रादिढका च समावेशार्थम् । तेन त्रैरूप्यं भवति । गाङ्गः । गाङ्गायनिः । गाङ्गेयः ।
विपाशशब्दः पठ्यते कुञ्जादित्वात्गोत्रे स्फञा समावेशार्थम् । वैपाशः । वैपाशा-
यन्यः । शिव । प्रोष्ठ । प्रोष्ठिक । चण्ड । जम्भ† । मुनि । सन्धि । भूरि । कुठार ।
अनभिम्लान‡ । ककुत्स्थ । कहोड । लेख । रोध । खञ्जन । कोहड । पिष्ट । हेरम्ब ।
खञ्जार । सञ्जाल । सुरोहिण । पर्ण । कहूष । परिल । वतण्ड । वृष । कर्ण ।
क्षीरह्रद । जलह्रद । परिविक । जटिलिक । गोफिलिक । बधिरिका । मञ्जीरक ।
वृश्चिक । रेख । आलेखन । विप्रश्रवा । खण्डा । वर्सेनाट । पिटक । पिटाक ।
सुखाक । नभाक । ऊर्णनाभ । जरत्कारु । उत्तित्पा । रोहितिक । आर्यश्वेत ।
सुविष्ट । खर्जूरकर्ण । मसूरकर्ण । तूलकर्ण । मयूरकर्ण । सहरक । तक्षन् ।
षष्टिपथ । गङ्गा । विपाशा । यस्क । लह्य । द्रुह्य । अयःस्थूण । भलन्दन ।
विरूपाक्ष । भूमि । इला । सपत्नी ॥ द्व्यचो मद्र्राः ॥ त्रिवेणी त्रिचकं च § * ॥
- पथ । कन्धु । बुध । मुनु । कर्कटक । श्वा । तण्ड । तलुण्ड । प्रमुन । विसम्भ ।
विशङ्क । इते ऽत्राधिकाः पुस्तकान्तरे ।
† भायहेति पा० २ ।
‡ अनभिम्सानेति पा० २ ।
§ त्रिवेणीरेवाभ्यस्तस्यानिकाञोऽपवादस्य ण्यच इति ढको ऽपवाद इत्यधिकं पुस्त-
कान्तरे ।
॥ कहूष । कपोध । परल । गोवाक्ष । गोभिलिक । राजल । तडाक । वहाक । इते
ऽप्यंशिकाः पुस्तकान्तरे ऽधिकाः ।