सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 178, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 178

॥ काशिका ३ । २ ॥ १०७
वाहः । उद्यमनमुत्क्षेपणम् । अंशं हरतीत्यंशहरः । रिक्थहरः । अनुद्यमन इति
किम् । भारहारः ॥ कर्तृकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुष्षु वहे-
रुपसंख्यानम् ॥ * ॥ शक्तिवहः । लाङ्गलवहः । अङ्कुशवहः । यष्टिवहः । तोम-
रवहः । घटवहः । घटीवहः । धनुर्वहः ॥ सूत्रे च धार्यार्थे ॥ * ॥ सूत्रवहः । सूत्रं
धारयतीत्यर्थः । सूत्रवाह यवान्यः ॥
वयसि च ॥ १० ॥
वयसि गम्यमाने हरतेः कर्मण्युपपदे ऽच्प्रत्ययो भवति । उद्यमनार्थोऽय-
मारम्भः । कालकृता शरीरावस्था यौवनादिर्वयः । यदुद्यमनं क्रियमाणं संभाव्यमानं
वा वयो गमयति तत्रायं विधिः । कास्यहरः श्वा । कवचहरः क्षत्रियकुमारः ॥
आङि ताच्छील्ये ॥ ११ ॥
आङ्पूर्वाद्ध