सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 177, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 177

१०० ॥ काशिका ॥ ३ ॥ २ ॥
सुपि स्थः ॥ ४ ॥
सुबन्तउपपदे तिष्ठतेः कप्रत्ययो भवति । समस्थः । विषमस्थः * । अथ
योगविभागः कर्त्तव्यः । सुपीति । सुप्याकारान्तेभ्यः कप्रत्ययो भवति । द्वाभ्यां
पिबतीति द्विपः । पादपः । कच्छपः । ततः स्थः । स्थश्च सुपि कप्रत्ययो भवति ।
किमर्थमिदम् । कर्त्तरि पूर्वयोगः । अनेन भावे यथा स्यात् । आखूनामुत्थानम्
आखूत्थः । शलभोत्थः । इत उत्तरं कर्मणीति च सुपीति च द्वयमप्यनुवर्त्तते । तत्र
सकर्मकेषु धातुषु कर्मणीत्येतदुपतिष्ठते । अन्यत्र सुपीति ॥
तुन्दशोकयोः परिमृजापनुदोः ॥ ५ ॥
तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोर्धात्वोः कप्रत्ययो भवति ॥
तुन्दपरिमृज आस्ते । शोकापनुदः पुत्रो जातः ॥ आलस्यसुखाहरणयोरिति वक्त-