काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 179, कुल 828 में से
संदर्भ में पढ़ें१७२ ॥ काशिका ॥ ३ ॥ २ ॥
सङ्ख्ययः ॥ उत्तानादिषु कर्त्तृषु ॥ * ॥ उत्तानः शेते, उत्तानशयः। अवमूर्द्धा शेते,
अवमूर्द्धशयः ॥ गिरौ डश्छन्दसि ॥ * ॥ गिरौ शेते गिरिशः ॥
चरेष्टः ॥ १६ ॥
अधिकरण इति वर्त्तते। चरेर्धातोरधिकरणे सुबन्तउपपदे टप्रत्ययो भवति।
कुरुषु चरतीति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम् ॥
भिक्षासेनादायेषु च ॥ १७ ॥
अनधिकरणार्थ आरम्भः। भिक्षा सेना आदाय इत्येतेषूपपदेषु चरेर्धातो-
ष्टप्रत्ययो भवति। भिक्षाचरः। सेनाचरः। आदायचरः ॥
पुरोग्रतोग्रेषु सर्त्तेः ॥ १८ ॥
पुरस् अग्रतस् अग्रे इत्येतेषूपपदेषु सर्त्तेर्धातोष्टप्रत्ययो भवति। पुरः सरति,
पुरःसरः। अग्रतःसरः। अग्रेसरः ॥
पूर्वे कर्त्तरि ॥ १९ ॥
पूर्वशब्दे कर्तृवाचिन्युपपदे सर्त्तेर्धातोष्टप्रत्ययो भवति। पूर्वः सरतीति
पूर्वसरः। कर्त्तरीति किम्। पूर्वं देशं सरति, पूर्वसारः ॥
कृञो हेतुताच्छील्यानुलोम्येषु ॥ २० ॥
कर्मण्युपपदे करोतेर्धातोष्टप्रत्ययो भवति। हेतौ ताच्छील्ये आनु-
लोम्ये च गम्यमाने। हेतुरैकान्तिकं कारणम्। ताच्छील्यं तत्स्वभावता।
आनुलोम्यमनुकूलता। हेतौ तावत्। शोककरी कन्या। यशस्करी विद्या।
कुलकरं धनम्। ताच्छील्ये। श्राद्धकरः। अर्घकरः। आनुलोम्ये। प्रैषकरः।
वचनकरः। एतेष्विति किम्। कुम्भकारः। नगरकारः ॥
दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी-
किंलिपिलिबिवलिभक्तिकर्तृचित्रक्षेत्रसंख्या-
जङ्घाबाह्वहर्यत्तद्धनुररुष्षु ॥ २१ ॥
कर्मणि सुपीति च द्वयमप्यनुवर्त्तते। तत्र यथायोगं सम्बन्धः। दिवा-
दिषूपपदेषु करोतेर्धातोष्टप्रत्ययो भवति। अहेत्वाद्यर्थ आरम्भः। दिवाशब्दो
ऽधिकरणवचनः सुपीत्यस्य विशेषणम्। दिवा करोति प्राणिनश्चेष्टायुक्तामिति,
दिवाकरः। विभां करोतीति विभाकरः। निशाकरः। प्रभाकरः। भास्करः।
सकारस्यनिपातनाद्विसर्जनीयजिह्वामूलीयो न भवतः। कारकरः। अन्तकरः।
अनन्तकरः। आदिकरः। बहुकरः। नान्दीकरः। किंकरः। लिपिकरः। लिबिकरः।
बलिकरः। भक्तिकरः। कर्त्तृकरः। चित्रकरः। क्षेत्रकरः। संख्या। एककरः। द्विकरः।