काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 176, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ३ । १ । ५ ॥ १६५
हो काले च कर्त्तरि । हायना नाम व्रीहयः । बह्वप्युदकमिति कृत्वा । काले ।
हायनः संवत्सरः । जहाति भावानिति ॥
प्लुसृ*स्वः समभिहारे वुन् ॥ १४९ ॥
प्लु सृ स्वू इत्येतेभ्यो धातुभ्यः समभिहारे वुन्प्रत्ययो भवति । प्लवकः । सरकः ।
स्वकः। समभिहारग्रहणेनात्र साधुकारित्वं लक्ष्यते । साधुकारिणि वुन्विधानात्स-
म्प्रतिषेधे यः सुष्ठु करोति तत्र भवति । बहुशो यो दुष्टं करोति तत्र न भवति ॥
आशिषि च ॥ १५० ॥
आशिषि गम्यमानायां धातुमात्राद् वुन्प्रत्ययो भवति । जीवतात्, जी-
वकः । नन्दतात्, नन्दकः । आशीः प्रार्थनाविशेषः । स च क्रियाविषयः । अमु-
ष्याः क्रियायाः कर्त्ता भवेदित्येवमाशास्यते ॥
इति काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः ।
॥ अथ तृतीयाध्यायस्य द्वितीयः पादः ॥
कर्मण्यण् ॥ १ ॥
त्रिविधं कर्म निर्वर्त्य विकार्यं प्राप्यं चेति । सर्वत्र कर्मण्युपपदे धातोरण्प्र-
त्ययो भवति । निर्वर्त्ये तावत् । कुम्भकारः । नगरकारः । विकार्यम् । काष्ठतक्षकः ।
शरलावः । प्राप्यम् । वेदाध्यायः । चर्चापाठः । ग्रामं गच्छति, आदित्यं पश्यति,
हिमवन्तं शृणोतीत्यत्र न भवत्यनभिधानात् ॥ शीलकामिभक्ष्याचरिभ्यो णः पूर्व-
पदप्रकृतिस्वरत्वं च वक्तव्यम् ॥ * ॥ मांसशीलः । मांसशीला । मांसकामः ।
मांसकामा । मांसभक्षः । मांसभक्षा । कल्याणाचारः । कल्याणाचारा ॥ ईप्सित-
मिभ्यां चेति वक्तव्यम् ॥ * ॥ सुखप्रतीतः । सुखप्रतीता । बहुसमः । बहुसमा ॥
ह्वावामश्च ॥ २ ॥
ह्वेञ् स्पर्धायां शब्दे च । वेञ् तन्तुसन्ताने । माङ् माने । एतेभ्यश्च कर्मण्यु-
पपदे ऽण् प्रत्ययो भवति । कप्रत्ययापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥
आतो ऽनुपसर्गे कः ॥ ३ ॥
आकारान्तेभ्यो ऽनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः ।
गोदः । कम्बलदः । पाणिध्मः । शङ्खध्मः । अनुपसर्गेति किम् । गोसंदायः ।
वडवासंदायः ।
* 'स्रु' इत्येकस्मिन् पुस्तके पाठः, तदनुसारेणोदाहरणमपि कश्च स्वक स्थाने स्रवक
आवेव तत्र ।