सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 144, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 144

किम्। औपगवाः। बहुष्विति किम्। बाहुः। तेनैव ग्रहणं किम्। प्रियो
बाहो येषां तद्मेप्रियबाह्वाः। अस्त्रियामिति किम्। बाह्व्यः स्त्रियः ॥
यस्कादिभ्यो गोत्रे ॥ ६३ ॥
बहुषु तेनैवास्त्रियामिति सर्वमनुवर्तते। यस्क इत्येवमादिभ्यः परस्य
गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग्भवति, तेनैव चेद् गोत्रप्रत्ययेन
कृतं बहुत्वं भवति। अपत्यविधेश्चान्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरा-
पत्येपि लुग्भवत्येव। यस्कः। लभ्याः। बहुष्वित्येव। यास्कः। तेनैवेत्येव।
प्रिययास्काः। अस्त्रियाम्त्येव। यास्क्यः स्त्रियः। गोत्रइति किम्। यास्का-
श्छात्राः। यस्क। लभ्य। द्रु। अयःस्थूणा। तृणकर्ण। एते पञ्च शिवादिषु
पठ्यन्ते। ततः परेभ्यः षड्भ्योऽञ्*। सदामत्त। कम्बलभार। अङ्गिरोगाथ।
कर्षाटक। पिण्डीजङ्घ। बकसथ। ततः परेभ्यश्चतुर्भ्यो गर्गादिभ्यश्चेति ञन्।
बर्सि। कुद्रि†। वाज्रबर्सि। भियु। ततः परेभ्यो द्वादशभ्य इञ्। रतामुञ्च।
अङ्गारथ। मन्यक। उत्कास। कुलमन्यक। पुष्करसत्। विष्पुट। उपरिमे-
खन। क्रोष्टुमान। क्रोष्टुपाद। भेषमाय। पुष्करसच्छब्दाद् बाह्वादिपाठा-
दिञ्। सरपशब्दो नडादिषु पठ्यते ततः फक्। पदक्क। वर्मैक्र। एताभ्यामत
इञ्। भलन्दनशब्दात् शिवादिभ्यो ऽण्। भडिल। भण्डिल। भडित। भण्डित।
एतेभ्यश्चतुर्भ्यो ऽश्वादिभ्यः फञ्॥
यञञोश्च ॥ ६४ ॥
बहुषु तेनैवास्त्रियां गोत्रइति चानुवर्तते। यञो ऽञश्च गोत्रप्रत्ययस्य
बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग्भवति। गर्गादिभ्यो यञ्। गर्गाः। वत्साः।
याञः सन्वपि। अनुष्यानन्तर्ये बिदादिभ्यो ऽञ् बिदाः। उर्व्वाः। बहुष्वित्येव।
गार्ग्यः। बैदः। तेनैवेत्येव। प्रियगार्ग्याः। प्रियबैदाः। अस्त्रियामित्येव। गार्ग्यः
स्त्रियः। बैदाः स्त्रियः। गोत्रइत्येव। द्वीपादनुसमुद्रं यञ्। द्वैप्याः। उत्सादिभ्यो
ऽञ्। औत्साश्छात्राः॥ यञादीनामेकद्वयोर्वा तत्पुरुषे बहुषु उपसंख्यानम् ॥ * ॥
गार्ग्यस्य कुलं, गार्ग्यकुलं, गर्गकुलं वा। गार्ग्ययोः कुलं, गार्ग्यकुलं, गर्गकुलं वा। एवं
बैदस्य कुलं, बैदकुलं, बिदकुलं वा। बैदयोः कुलं, बैदकुलं बिदकुलं वा। यञा-
दीनामिति किम्। बाहुकुलम्। एकद्वयोरिति किम्। गर्गाणां कुलं, गर्गकुलम्।
तत्पुरुषइति किम्। गार्ग्यस्य समीपमुपगार्ग्यम्। बहुषु इति किम्। परमगार्ग्यः॥
अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ ६५ ॥

  • क्व पुस्तकान्तरे 'सप्तभ्य इञ्' इति पाठः, तदनुसारेण कर्षाटक इत्येतदुत्तरं 'च-
    र्षाटक' इत्येतदधिकम् ।
    † विचि। कद्रु। इति पा० ३ ।