सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 145, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 145

१३८ ॥ काशिका ॥ २ ॥ ४ ॥
अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति । अत्रिशब्दादितश्चा-
निञ इति ढक् । इतरेभ्य श्छण् । अत्रयः । भृगवः । कुत्साः । वसिष्ठाः ।
गौतमाः । अङ्गिरसः । बहुष्वित्येव । आत्रेयो, भार्गवः । नैवेत्येव । प्रिया-
त्रेयाः । प्रियभार्गवाः । अस्त्रियामिति किम् । आत्रेय्यः स्त्रियः ॥
बह्वच इञः प्राच्यभरतेषु ॥ ६६ ॥
बह्वचः प्रातिपदिकाद् य इञ् विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते
तस्य बहुषु लुग्भवति । पञ्चागाराः । मन्थरेशणाः । भरतेषु खल्वपि । युधि-
ष्ठिराः । अर्जुनाः । बह्वच इति किम् । वैक्यः । नैध्यः । प्राच्यभरतेष्विति
किम् । बालाक्यः । हास्तिदासयः । भरताः प्राच एव तेषां पुनर्यहणं ज्ञाप-
नार्थम्, अन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवतीति तेन इञः प्राचामिति भर-
तानां युधप्रत्ययस्य लुग् न भवति । आर्जुनिः पिता आर्जुनायनः पुत्रः ॥
न गोपवनादिभ्यः॥ ६७ ॥
गोपवनादिभ्यः परस्य प्रत्ययस्य लुङ् न भवति । बिदाद्यन्तर्गणोऽयम् । ततो
ऽञो गोत्रप्रत्ययस्य यञञोश्चेति लुक् प्राप्तःप्रतिषिध्यते । गोपवनाः । शैगवाः ।
गोपवन । शिगु । बिन्दु । भाजन । अश्व अवतान । श्यामाक । श्वापर्ण ।
इत्यवन्त एवाष्टौ गोपवनादयः । परिशिष्टानां हरितादीनां प्रमादपाठः । ते हि
चतुर्थे बिदादिषु पठ्यन्ते । तेभ्यश्च बहुषुलुग्भवत्येव । हरिताः । किंदासा इति ॥
तिककितवादिभ्यो द्वन्द्वे ॥ ६८ ॥
तिकादिभ्यः कितवादिभ्यश्चद्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग्भवति । तैका-
यनयश्च कैतवायनयश्च । तिकादिभ्यः फिञ् । तस्य लुक् । तिककितवाः ।
वाभ्रवयश्च भाण्डीरथयश्च । अत इञ् । तस्य लुक् । बभ्रुभाण्डीरथाः । औपकाय-
नाश्च लामकायनाश्च । नडादिभ्यः फक् । तस्य लुक् । उपकलमकाः । पाफक-
यश्च नारकयश्च । अत इञ् । तस्य लुक् । पफकनरकाः । बाक्रनखयश्च स्वागुदप-
रिखद्यश्च । अत इञ् । तस्य लुक् । बक्रनखस्वगुदपरिखाङ्गाः । उब्जशब्दादत
इञ् । ककुभशब्दाच्छिक्वाणण् । तयोर्लुक् । औब्जयश्च काकुभाश्च उब्जककुभाः ।
लाडूयश्च शान्तमुखयश्च । अत इञ् । तस्य लुक् । लङ्गुशान्तमुखाः । उरसङ्-
च्छब्दस्तिकादिषु पठ्यते ततः फिञ् । लहूटशब्दादित् तयोर्लुक् । औरसायनयश्च
लाहूटयश्च, उरसलहूटाः । आष्टकयश्च कापिष्ठलयश्च । अत इञ् । तस्य लुक् ।
अष्टककपिष्ठलाः । कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च । अत इञ् । तस्य लुक् ।
कृष्णाजिनकृष्णसुन्दराः । आग्निवेश्यश्च दासेरकयश्च । अग्निवेशशब्दाद् गर्गा-
दिभ्यो यञ् । दासेरकशब्दादत इञ् । तयोर्लुक् । अग्निवेशदासेरकाः ॥
उपकादिभ्यो ऽन्यतरस्यामद्वन्द्वे ॥ ६९ ॥