करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
': 'द्वि' has 'द' + 'व' with 'ि'.
Look at 'भृगावुदयाद्': 'वु' has a distinct left-curving hook.
Does this 'व' have a hook?
No, it has NO hook! Wait, look at 'ग्वक्तो':
Wait, is it 'ग्व' or 'च'?
No, it's 'ग्व'!
Wait, is there an avagraha?
Yes, ऽर्कघटीफलं.
Wait, could it be ग्वुक्तो? Look closely at the image:
Under 'व', there is a small curl? No, wait, look at ग्वक्तो vs ग्वुक्तो:
Wait, look at the top of that letter:
There is an avagraha ऽ before र्क!
Wait, look at: ग्वक्तोऽर्कघटीफलं vs ग्वुक्तोऽर्कघटीफलं:
Wait, look at the dot above 'तस्मिँल्लवाः':
It's a candrabindu: तस्मिँल्लवाः ।
Let's look at line 19 (verse line 3):
युक्ता मासमितैर्गृहैरथ रवे राश्यर्द्धयुक्ताश्च ते
Syallables:
युक्ता (2) मास (2) मितैर् (2) गृहै (2) रथ (2) रवे (2) राश्यर्द्ध (2)
इतश्चत्वारः श्लोकाः शार्दूलविक्रीडितेनाह-शकः पञ्चदि-
क्चन्द्रहीन इत्यादिनाधिमासैर्युगूर्ध्व इत्यन्तेन साधितो मासगणो
द्वाभ्यां गुणनीयस्त्रिभिर्भाज्यो लब्धाङ्को भागादिर्द्विसप्तत्युत्तर-
द्विशत्या २७२ युतः कार्यः ततो वर्षाणां करणगताब्दानाम्-
भ्रदस्त्रांशेन २० विंशतितमांशेन युक्तः कार्य एवम्भूते तस्मि-
न्ंशाद्ये यद्वाचार्योक्तार्कघटीफलं पञ्चभि ५ र्भक्तं तद्यथा-
सम्भवं धनमृणं कार्यमेवं तस्मिन्नंशाद्ये मासगणतुल्यै राशिभी
राशिस्थाने युतं कार्यमथ रखेर्ग्रहणसम्भवे राश्यर्द्धेन पञ्चदश-
भिरंशैः पूर्वोक्तं राश्यादियुतं कार्यं ततस्तस्य भुजः कार्यस्त-
स्यांशाः स्वीयेनार्द्धेन सहिताः शरोऽङ्गुलादिः स्यात्सूर्यग्रहणे
राश्यर्द्धयुक्तो यस्मिन् गोले तद्दिक् ज्ञेया । यथा शके १५४२
मार्गशीर्षपूर्णिमा बुधे गताब्दाः ४३७ मासगणः ५४१४
द्विगुणः १०८२८ त्रिभक्तो लवादि ३६०९।२० दिन
२७२ युतः ३८८१।२० गताब्दाः ४४७ एषामभ्रदस्त्रां-
शेन २१।५१ युक्तः ३९०३।११ धनुषः पूर्वपक्षार्कघ-
टीफलम् ३ पञ्चभि ५ र्भक्तं लब्धमंशाद्यम् ०।३६ पूर्वस्मिन्
३९०३।११ कर्कादित्वादृणम् ३९०२।३५ अयमं-
शादि राश्यादिकर्तुं त्रिंशद्भक्ते लब्धं राश्यादयः १३०।२।
३५।० राशिस्थाने मासगणः ५४१४ युतः ५५४४।२
३५।० राशिस्थाने द्वादशभिर्भक्ते लब्धम् ४६२ लब्धस्य
प्रयोजनाभावात्त्यक्तं शेषं राश्यादि ० । २ । ३५।० अस्य
भुजोऽयमेवांशाः २ । ३५।०। स्वीयेनार्द्धेन १ । १७ युताव्
३ । ५२ अयमङ्गुलादिशरः अथ सूर्यग्रहणसम्भवार्थं शाके
१५२२ लौकिकश्रावणवदि ३० तिथौ सोमे गताब्दाः४१७
मासगणः ५१६१ सूर्यः ३ । ० । ३५ दिनार्द्धम् १६ । ३
पूर्वघटी २८ । ५६ मासगणः ५१६१ द्विघ्नः १०३२२
त्रिभक्तोंऽशादि ३४४० । ४ । ० दिघ्नयुतः ३७१२ । ४०। ०
वर्षाणां ४१७ विंशांशेन २० । ५१ युतः ३७३३ । ३१।०
कर्कपूर्वपक्षघटी ३ फलं शरभक्तेन ० । ३६ हीनः ३७३२।
५५ । ० त्रिंशद्भक्तं राश्यादि १२४ । १२ । ५५ । ०
राशिस्थानं मासगणैः ५१६१ युतम् ५२८५।१२।५५।०
द्वादशभक्तं शेषं राश्यादि ५ । १२ । ५२ । ० सूर्यग्रहणत्वा-
द्राश्यर्द्धेन ० । १५ । ० । ० युतं जातं राश्यादि ५ । २७ ।
५५ । अस्य भुजः ० । २ । ५ । ० अस्यांशाः १ । ५।०
निजार्द्धेन १ । २ युतः ३ । ७ शरोऽङ्गुलादिरुत्तरः राश्यर्द्ध-
युक्तस्य राश्यादिसौम्यगोले स्थितत्वात् ॥ १ ॥
अथ नतसाधनमाह-
दर्शान्ते नतनाडिकान्धिरहितो युक्तो गृहाद्यो रविः
प्राक्पश्चादयनांशकैश्च सहितस्तद्दोगृहोनाहताः ।
शैलास्ते द्विगुणा लवादिरयमस्तात्स्वाक्षतोऽशा
गणककुमुदकौमुदीटीकासमेतम् १४०( १४९ )
नतास्तद्वेदांशमिता नतिश्च विशिखस्तत्संस्कृतोऽ-
र्केग्रहे ॥ २ ॥
दर्शान्तकालीनं नतं कृत्वा तस्यांघ्रिश्चतुर्थांश इति नतघ-
टिकानां चतुर्भि ४ र्भागे लब्धराशयः शेषं त्रिंशद्भिः सङ्गुण्य
पुनश्चतुर्भिर्भागे हृते लब्धा भागाः शेषं षष्ट्या सङ्गुण्य
चतुर्भक्ते लब्धं कला एवं राश्यादिफलं ग्राह्यं तेन दर्शान्तका-
लिको ग्राह्यो रविः प्राकपाले रहितः पश्चिमकपाले युक्त इति
कृत्वा स एवायनांशैर्युक्तस्तस्य भुजं कृत्वा तेन भुजेनोना हता-
श्च शैलाः ७ सम कार्याः स लवादिक्रान्तिर्भवति ततः शरः
स्वाक्षवशेन प्राग्वन्नतांशाः साध्यास्तेषां चतुर्थांशो नतिः
स्यात्तया प्रागानीतः शरः संस्कृतः सन् स्फुटो भवति यथा
दर्शान्तः २८ । ५६ दिनार्द्धम् १६ । ४३ अनयोरन्तरं
घट्यादिनतं १२ । १३ पश्चिमं चतुर्भक्ते लब्धं राशयः
३ शेषम् ० । १३ त्रिंशद्गुणम् ६ । ३० चतुर्भक्तं लब्ध-
मंशाः १ शेषम् २ । ३० षष्टिगुणम् १५० चतुर्भक्ते लब्धं
कलाः ३७ शेषम् २ षष्टिगुणम् १२० चतुर्भक्तं लब्धं
विकलाः ३० एवं राश्यादिना ३ । १ । ३७ । ३० अमावा-
स्यान्तकालीनः स्पष्टो वा गतेष्टनाडीत्यादिना स्थूलोऽपि रविः
३ । ० । ३५ । ३४ पश्चिमनतत्वाद्युतः ६ । २ । १३ । ४
अयनांशैः १७ । ५७ युतः ६ । २० । १० । २४ अस्यं
( १५० ) करणकुतूहलम् । ५०
भुजः ० । २० । १० । २४ अनेन सप्त ७ राशय ऊनाः
६ । ९ । ४९ । ३६ पुनर्भुजेनैव ० । २० । १० । २४
गुणिता गोमूत्रिकया २ । ४० । २० द्विगुणाः ५ । २० ।
४० जातांशादिः क्रान्तिः संस्काररहिता सायनोऽर्को याम्य-
गोलेऽस्मायाम्या याम्याक्षांशैः २४ । ३५ । ९ संस्कृता जाता
नतांशा याम्याः २९ । ५५।४९ चतुर्भक्ता ७ । २७ जाता
नतिर्याम्यनया पूर्वानीतसौम्यशरः ३ । ७ संस्कृतो भिन्नदि-
क्त्वादन्तरम् ४ । २० जातः स्पष्टशरः सौम्यः ॥ २ ॥
अथ ग्रहणसम्भवासम्भवमाह-
गोचन्द्रा हिमगोर्भवाश्च तरणेर्मानैक्यखण्डं शरे
तन्न्यूने ग्रहणं भवेदिति बुधैश्चिन्त्यः पुरा सम्भवः।
चक्राद्यः खलु मध्यमार्कतमसोर्र्योगो द्विघ्नो द्वियु-
क्पर्वेशो मुनिभक्तशेषकमितो ज्ञेयो विरंच्यादिकः॥३॥
गोचन्द्रेति-गोचन्द्रा एकोनविंशतिश्चन्द्रस्य मानैक्यार्द्धं
शरं चन्द्रशरं मानैक्यार्द्धादूने सति ग्रहणं भवेदिति
गणककुमुदकौमुदीटीकासमेतम् १०-( १५१ )
वत्। अथ चक्राथ इति क्षेपकरहितयोर्मध्यमार्कतमोर्मध्यसूर्य-
रहितयोर्मध्यमार्कतमोर्मध्यसूर्यपातयोर्भगणाद्यो योगो द्विघ्नः
द्विगुणीकृतः द्वियुक्तः कार्यः सप्तभिर्भाज्यः शेषं तेन गता वर्त-
मानस्य राश्याद्यं भुक्तं ब्रह्मादिकः पर्वेशः ब्रह्मशशीन्द्रकुवे-
रवरुणाग्नियमाश्च पर्वेशा इति यथा चन्द्रग्रहणे क्षेपरहितो
भगणाद्यो रविः ४३७।६।०।५१।३८ पात: २३।६
१४।३८।२५ अनयोर्योगः ४६१।०।१९।३८।३ द्वि-
गुणः ९२२।०।३१।१६।६ द्वियुक् ९२४ सप्त ७ भक्तं
शेषम् ० ब्रह्मतो गणनया सप्त गताः ब्रह्मा पर्वेशः
सूर्यग्रहणे भगणादिरविः ४१७।४।१।२१।१३ पात: २२
५।९।२४।१८ अनयोर्योगः ४३९।९।१०।४५।३१
द्विगुणः ८७९।६।२१।३१।२ द्वियुक्त ८८१।०।४३।२।
४ सप्त ७ भक्ते शेषम् ६ पर्वशो यमो ज्ञेयः ॥ ३ ॥
अथ ग्रन्थकृतस्यनामपूर्वकवर्णनमाह-
आसीत्सज्जनधाम्नि गेहविवरे शाण्डिल्यगोत्रो
द्विजःश्रौतस्मार्तविचारसारचतुरःसौजन्यरत्नाकरः॥
ज्योतिर्वित्तिलको महेश्वर इति ख्यातः क्षितौ स्वैर्गु-
णैस्तत्सूनुःकरणं कुतूहलमिदं चक्रे कविर्भास्करः॥४॥
इतीह भास्करोदिते ग्रहागमे कुतूहले।
विदग्ध-बुद्धिवल्लभे रवीन्दुपर्वसम्भवः ॥१०॥
( १५२ ) करणकुतूहलम् । ४१
आसीदिति।स्पष्टार्थो ज्ञेयः ॥४॥
इति श्रीकरणकुतूहले पर्वसम्भवासम्भवमाध्यायानः
दशमः समाप्तिमगमत् ॥ १० ॥
अथ ग्रहणोपयोगी नीरदाध्यायो व्याख्यायते-
समलिप्तीकृते भानौ राश्येकं शोधयेद्बुधः । अंश-
का मानवश्चैव शेषं चक्राच्च पातयेत् ॥ १ ॥
कलितं वर्गितं द्विघ्नं चक्रलिप्ताभिरुद्धरेत् । लब्धा-
द्य इतरे संज्ञे तरोर्विंशांशकैर्युतः ॥ २ ॥
समलिप्तार्कसंयुक्ताच्छोधयेदुदयभास्करात् । य-
च्छेषमाद्यसंयुक्तं नीरदार्को हि संस्फुटः ॥ ३ ॥
समकलसूर्यमध्य एकोराशिश्चतुर्दशांशाः १।१४।०।०
शोध्याः शेषं द्वादशराशिभ्यः १२ शोधयेत् तस्य कलाः
कार्यास्तासां वर्गो विधेयः सदिगुणः कार्यस्तं चक्रकलाभिः
गणककुमुदकौमुदीटीकासमेतम् ११( १५३ )
१९३०१५४०२।४२चक्रकलाभिः २१६०० भक्ते लब्धं
कला दि८९३५।५३षष्टिभक्तं लब्धमंशादि१४८।५५।५३
त्रिंशद्भक्तं जातं राश्यादिः ४।२८।५५।५३ एतस्य राश्या-
दिकस्याद्य इतरसंज्ञकत्रयोदशभिरंशैः १३ युतः ५।११।
५५।५३ समकलसूर्ये ८।०।१६।१० युतः१।१२।१२।
३ औदयिकसूर्यात् ७।२९।३५।२० शुद्धः शेषम् ६।१७।
२३।१७ आद्येन ४।२८।५५।५३ युक्तम् ११।१६।१९
१० अयं नीरदार्कोऽत्र स्पष्टो ज्ञेयः ॥ ३ ॥
अस्य प्रयोजनमाह-
रविभौमांशकं दृष्ट्वा निरभ्रं ग्रहमादिशेत् । शनि-
सौम्यनवांशे चेत्सलिलं
( १५४ ) करणकुतूहलम् । ४१
अथ स्वप्रशस्त्यमाह-
यथामति मया प्रोक्तं सम्प्रदायात्तथापि वा ।
उचिताऽनुचितं यन्मे तद्वाक्यं क्षम्यतां विदः ॥ १ ॥
विन्ध्याद्रिं निकषा पुरी सुविदिता सर्वद्विंवृद्धान्विता
तन्नेतास्ति भटः स्ववंशतिलकश्चौलुक्यवंशोद्भवः ।
सुश्रीवीरमुदे सुनीतिनिपुणो हेमादिरेखापुरो
योऽभूदानभूपतीन्स्थिरतरान्प्रोत्मूल्य राजन्यके ॥ २ ॥
वैशारद्ये खलु मन्त्रिणि प्रियवृपे दानप्रसूक्तौ सति
मङ्गल्यादिकलामिते गतवति श्रीविक्रमात्संवति ।
मासे प्रौष्ठपदे विनायकतिथौ दैत्येज्यवारे वरे
चक्रे श्रीगुरुनायतः सुमतियुग्धर्षेण चैषा मुदा ॥ ३ ॥
ग्रन्थाग्रन्थशतान्यस्य सार्द्धाष्टादशसंख्यया १८५० ।
ज्ञेयं चेदङ्गबाहुल्यान्न्यूनाधिक्यं न दोषकृत् ॥ ४ ॥
करणवृतावेतस्यां सुमतिहर्षरचितायाम् ।
गणककुमुदकौमुद्यांनिर्णीतः पर्वसम्भवः ॥ ५ ॥
इति श्रीनुमतिहर्षविरचितायां बृहत्तुल्यवृत्तौ गणककुमुद-
कौमुद्यां ग्रहणसम्भवाधिकारोऽथ सन्निर्धार-
विचाराध्यायः समाप्तः ॥ १० ॥
९४
विक्रय्यपुस्तकें–ज्योतिषग्रन्थाः ।
नाम. की. रु. आ.
लीलावती सान्वय भाषाटीका अत्युत्तम .... ... ... १-८
बृहज्जातकसटीक भट्टोत्पलीटीकासमेतजिल्द ... ... १-१२
बृहज्जातकमहीधरकृतभाषाटीका अत्युत्तम ' ... ... १-८
वर्षदीपकपत्रीमार्ग ( वर्षजन्मपत्र बनानेका ) .... ... ०-४
मुहूर्त्तचिन्तामणि प्रमिताक्षरा रफ रु. १ ग्लेज ... .... १-८
मुहूर्त्तचिन्तामणि पीयूषधारा टीका ... ... ... २-८
ताजिकनीलकण्ठीसटीकतंत्रत्रयात्मक ... ... ... १-०
ताजिकनीलकण्ठी तंत्रत्रयात्मक महीधरकृत भाषाटीका
अत्युत्तम टैपकी छपी ... ... ... १-८
ज्योतिषसार भाषाटीकासहित ... ... .... ... १-०
मुहूर्त्तचिन्तामणिभाषाटीका महीधरकृत ... ... १-०
मानसागरीपद्धति ( जन्मपत्रबनानेमेंपरमोपयोगी ) .... १-०
बालबोधज्योतिष ... .... ... ... ... .... ०-२
ग्रहलाघव सान्वय सोदाहरण भाषाटीका समेत ... .... १-०
जातकसंग्रह ( फलादेश परमोपयोगी ) ... ... .... ०-१२
चमत्कारचिन्तामणि भाषाटीका ... ... ... ०-४
जातकालंकारभाषाटीका ... ... ... ०-६
बृहत्पाराशरहोराशास्त्रम्–पूर्वखण्ड सारांश मूल व उत्तर खण्ड
संस्कृतटीका तथा भाषाटीका सहित... ... ... ५-०
जातकालंकार सटीक ... ... ... ... ०-६
जातकाभरण .... ... ... ... ०-१२
प्रश्नचंडेश्वर भाषाटीका ... ... ... ... ०-१२
पंचपक्षी सटीक .... ... ... ... ... ०-४
पंचपक्षी सपरिहार भाषाटीका समेत ... ... ... ०-६
लघुपाराशरी भाषाटीका अन्वय सहित ... ... ... ०-३
( १५६ ) जाहिरात ।
नाम. की. रु. आ.
मुहूर्त्तगणपति ... ... ... ... ... ... ०-१२
मुहूर्त्तमार्त्तण्ड संस्कृत टीका व भाषाटीका सहित... ... १-०
शीघ्रबोधभाषाटीका ... ... ... ... ... ०-६
षट्पंचाशिका भाषाटीका... ... ... ... ... ०-३
भुवनदीपक सटीक ४ आं०, तथा भाषाटीका ... ... ०-८
जैमिनिसूत्रसटीक चार अध्यायका ... ... ... ०-६
रमलनावरत्न मूल ... ... ... ... ... ... ०-८
केशवीजातक सोदाहरण भाषाटीका चक्रों समेत ( अतिव-
उपयोगी ) ... ... ... ... ... ... १-८
सर्वार्थचिंतामणि ... ... ... ... ... ०-१०
लघुजातकसटीक ... ... ... ... ... ०-५
लघुजातक भाषाटीका ... ... ... ... ... ०-८
सामुद्रिकभाषाटीका ... ... ... ... ... ०-४
सामुद्रिकशास्त्र बड़ा सान्वय भाषाटीका ... ... ... १-४
वृद्धयवनजातक भाषाटीकासह ... ... ... ... १-०
यवनजातक ... ... ... ... ... ... ०-२
संपूर्ण पुस्तकोंका “बड़ासूचीपत्र” अलग है, आध
आनेका टिकट भेजकर मँगालीजिये.
पुस्तकोंके मिलनेका पता—
खेमराज श्रीकृष्णदास,
“श्रीवेङ्कटेश्वर” छापाखाना, खेतवाड़ी-बंबई.