करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 67, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् ४ (६७)
तांशास्तेषां भुजं कृत्वा ज्या साध्या ततः प्राग्वदक्षवलनमाने-
यम्। उक्तं च पर्वमालायाम्,-स्वरात्रौ शेषजा नाड्यो द्युदलं
स्पर्शमोक्षयोः। नतं स्यात्स्वदिनं प्राग्वत्तन्नाड्यः षड्गुणा लवाः
३ तद्भुजज्या पलांशघ्नी त्रिज्याभक्ता लवादिकम्। वलनं
स्यादुदग्ग्राम्यं ग्रहणं प्राक्परस्थिते२पुनरुक्तम्, रात्रेः शेषघटी-
युक्तं दिनार्द्धं प्राङ्नतं रवेः। रात्रेर्गतघटीयुक्तं दिनार्द्धं प्रत्यङ्नतं
रवेः १ दिनशेषघटीयुक्तं निशार्द्धं प्राङ्नतं भवेत्। सूर्योदया-
द्युद्भिन्नार्द्धं प्रत्यग्मिन्दोर्नतं मतम् २ ततः खाङ्गाहतमित्या-
दिकार्यम्। ब्रह्मतुल्यभाष्ये तु ग्रस्तोदये स्पार्शिकनतं ग्रस्तास्ते
मौक्षिकं नतम्। स्वदिनार्द्धाद्यावदधिकं भवति तस्य स्वदिना-
र्द्धवशादंशा प्रसाध्य नभ्रते ९० विशोध्य तज्ज्यां कृत्वाऽक्षांशैः
सङ्गुण्य त्रिज्यया भाज्यं तदक्षजं वलनं स्यात्। ग्रस्तोदये सौम्यं
ग्रस्तास्ते दक्षिणमिति। एतदुदाहरणं यथास्थानं दर्शयिष्यामः।
अत्रास्तस्पर्शघटी७चन्द्रदिनार्द्धम् १६।४९अनयोरन्तरं स्पर्शन-
तं९।४९प्राक् खाङ्गाहतं८८३।३०स्वदिनार्द्धेन१६।४९भक्तं
लब्धं नतांशाः ५२।३२।१३एषां ज्या ९५।२ अनयाक्षांशाः
२४।३५।९ गुणिताः २३३६।२८।५८ त्रिज्यया १२०
भक्ते लब्धमाक्षजवलनमंशादिः १९।२८।१४प्राङ्नतत्वादुत्त-
रम्, अथायनांशाःस्पर्शकालः७यात्येष्यनाडीत्यादिना स्पार्शि-
कश्चन्द्रः १।२९।११।३८ सायनः २।१७।१९।२०कोटि
०।१२।४।४०ज्या २६।१बाणैर्भक्ता लब्धमायनं वलनम्