करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 64, कुल 155 में से
संदर्भ में पढ़ें(६४) करणकुतूहलम् । ४
शरः २ । ५७ नागयुगै ४८ भक्तः लब्धेन ० । ३ मध्य-
स्थितिः ४ । ३५ द्विष्ठा ४ । ३५ सपाताचन्द्रो विषमे
पदे तेन युता सती स्पर्शस्थितिः ४ । ३८ हीना सती मोक्ष-
स्थितिः ४ । ३२ एवं लब्धफलेन ० । ३ मध्यविमर्दः १ ।
५५ पुनः सन् १ । ५८ स्पर्शविमर्दः, हीनः सन् १ । ५२
मोक्षमर्दः। सूर्योदयादिति-सूर्यग्रहणे सूर्योदयाच्चन्द्रग्रहणे सूर्या-
स्तमयाद्भावि, एष्ये पर्वावसानकाले दर्शपूर्णमास्यन्ते स्फुटम-
ध्यग्रहा स्यात्, चन्द्रग्रहणे स मध्यग्रहः पूर्णमास्यन्तः सूर्य-
ग्रहणे स एव लम्बनसंस्कृतः स्फुटदर्शान्तः, अथ स्पार्शिक-
स्थित्या स्पार्शिकविमर्देन च वर्जिते हीने पर्वान्ते तिध्यन्ते
यथाक्रमं स्पर्श सम्मीलनकं च स्यात्, अथ निजाभ्यां स्वी-
याभ्यां मौक्षिकाभ्यां युक्तेऽस्मिन् पर्वान्तकाले क्रमेण मोक्षस-
मुन्मीलनकं च स्यात्, उभयोश्छाद्यच्छादकयोर्मण्डले सम्पर्कः
सम्मीलनमिति, छायावृत्ताखिलग्रसनंछाद्यबिम्बादर्शनमित्यर्थः।
मध्यग्रहमिति यावत्, शराङ्गुलमानेन छादनच्छादनं छन्नमि-
त्यर्थः । तन्मध्यग्रहणमेतस्मादधिकं न छाद्यते इत्युन्मीलन-
मिति, मध्यग्रहणान्मुच्यमाने छाद्यबिम्बस्पर्शनमात्रं मोक्ष
इत्युभयोर्बिम्बयोः पृथग्भावः छाद्यबिम्बाधिको यावद्भासः,
स्पर्शस्थित्या ४ । ३८ पर्वान्तकालम् ११ । ३८
हीनोजातः स्पर्शकालः ७ । ० स्पर्शमर्देन १ । ५८ रहितो
जातः सम्मीलनकालः ९ । ४० तिष्यन्तः ११ । ३८ मोक्ष-