करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 5, कुल 155 में से
संदर्भ में पढ़ेंलब्धेनो ११ परिस्थाङ्कः १०५३२ ऊनः १०५२१ शराङ्गैः
६५ भक्तो लब्धाधिमासै १६१ उपरिष्ठो ५२३३ युतश्चान्द्रमा-
सगणो जातो ५३९४ऽयं खरामै ३० गुणितः १६१८४०
शुक्लप्रतिपदादिगणनया गततिथिभि २८ युत १६१८४८
श्चान्द्रगणोऽयमध १६१८४८ त्रिभि ३ युतः १६१८५१
स्वशब्देनाधो १६१८५१ रामाभ्रशैलै ७०३ र्भक्तो लब्धेनो
२३० परिष्ठो १६१८५१ युतो १६२०८१ युगाङ्गै ६४ र्भक्तो
लब्धावमै २५३२ रुपरिष्ठो १६१८४८ हीनो जातोऽ-
हर्गणः १५९३१६ सप्तभक्ते शेषं ३ बृहस्पतिंतो गणनारुते
शनिर्गत उदये रविः ॥ ३ ॥
अथ ग्रन्थारम्भे चैत्रादिशुक्लप्रतिपदि सूर्योदयिका
मध्यमास्तेषां ग्रहाणां ध्रुवका अब्दबीजयुताः क्षेपकत्वेन
कृतास्तानाह-
दिशो गो यमा विश्वतुल्याः खमर्के,विधौ खेन्द्वोऽङ्गा-
श्विनः पञ्चखाक्षाः । विधूच्चेऽब्धयोऽक्षेन्द्वोऽङ्कां-
नवाक्षा, नर्वात्यष्टितत्वा ग्रहाश्चन्द्रपाते ॥ ४ ॥
कुजेऽश्वाः कुदस्रा जिनाः काशतुल्या,बुधे द्वौ कुने-
त्राणि शक्राः खरामाः । गुरौ क्षेपको द्वौ कृताः
खङ्कबाणाः,सितेऽष्टौ धृतिर्मार्गणाः पञ्चबाणाः॥५॥
युगान्यग्नयरुह्यन्धयः शैलचन्द्राः शनौ चेति
राश्यादिना क्षेपकेण । द्युपिण्डोत्थखेटो युतः स्वेन
मध्यो भवेदुद्गमेऽर्कस्य लङ्कानगर्य्याम् ॥ ६ ॥