सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 4, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 4

( ४ ) करणकुतूहलम् । २
शिरोमणौ—"स्पष्टोऽधिमासः पतितोप्यलब्धो यदा यदा वाऽ
पतितोऽपि लब्धः ॥ सैकैर्निरैकैः क्रमशोडधिमासैस्तदा दिनौघः
सुधिया विधेयः॥" तैरेवाधिमासैरुपस्थितोंऽको युक् युतः
कार्यश्चान्द्रमासो जातोऽसौ खरामैस्त्रिंशद्भि ३०-गुणितः सन्
शुक्लपक्षमादीकृत्य मासस्य गतदिनैर्युतश्चान्द्रोऽहर्गणो भवति
. स द्विःस्थाप्यस्ततस्त्रिभि ३ युतःस्वकीयेन रामाभ्रशैलांशेन
त्र्युत्तरसप्तशतांशेन-७०३ युतस्तस्माद्युगाङ्गैःश्वतुःषष्टिभि ६४
राप्ताऽवमानिअवमेऽप्यधिमासवत्सै कता निरेकता वा कार्या ।
उक्तञ्च—“अभीष्टवारार्थमहर्गणश्चेत्सैको ऽ निरेकस्तिथयोऽपि
तद्वत्” इति तैरवमैरुपस्थितश्चान्द्रोऽहर्गणो हीनः कार्यःस च
गुरुवारादिकोऽहर्गणो भवति ग्रन्थारम्भादारभ्यैते भूदिना
अर्कसावना इति एतावन्तःसूर्योदया जाताः । उक्तञ्च-
“इनोदयद्वयान्तरं तदेव सावनं दिनम् । तदेव मेदिनीदिनं भवा-
सरस्तु भभ्रम”इत्यहर्गणसिद्धिः।अथोदाहरणम्। संवत् १६७६
चैत्रादिवर्षे शाके १५४१चन्द्रे ज्येष्ठकृष्ण १४ रवौ घट्यादिः
५४ । २० अश्विनीनक्षत्रं घट्यादिः २७ । २६ सौभाग्यो
योगो घट्यादिः ४४।१२ अत्र दिने गतघटी ३।० समये
ग्रहाणां साधनं तत्र प्रथमाहर्गणार्थे यथा शार्कः १५४१पञ्च-
दिक्‍चन्द्रै ११०५ हीनः गताब्दपिण्डेऽ ४३६ यमार्कै १२
गुणितः५२३२ चैत्रतो गतचान्द्रमासेन १ युतो ५२३३ऽधो
५२३३ऽस्माद्दिगुणितात् १०४६६ रसाङ्गान्वितात् १०
५३२स्वशब्देनाधः स्थिता १०५३२ तदभ्रखराङ्कै ९००र्भाक्तो