करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 3, कुल 155 में से
संदर्भ में पढ़ेंगणककुमुदकौमुदीटीकासमेतम् । १ ( ३ )
अथ वर्तमानशकादारभ्याहर्गणादिसाधनमाह ।
शकः पञ्चदिक्चन्द्रहीनोऽर्कनिघ्नो
मधोर्यातमासान्वितोऽधो द्विनिघ्नात् ॥
रसाङ्गान्वितात्स्वाभ्रखाङ्कांशहीना-
च्छराङ्गैर्हृताताधिमासैर्युगूर्ध्वः ॥ २ ॥
खरामाहतो याततिथ्यन्वितोऽध-
स्त्रियुक्तात्खरामाभ्रशैलांशयुक्तात् ।
युगाङ्गैर्हृतावमोनस्तदूर्ध्वो
भवेज्जीववारादिकोऽहर्गणोऽयम् ॥ ३ ॥
यस्मिन्नभीष्टाब्दमासदिने ग्रहाणां मध्यमार्थं साधयितु-
मिष्यते तत्तत्समयकःशकः । शकनृपगताब्दपिण्डःपञ्चदि-
क्चन्द्रैःपञ्चोत्तरैरेकादशशतै ११०५ हीनःकार्यःयच्छेषं ते
ग्रन्थारम्भस्य गताब्दाः सौरा भवन्ति स गताब्दगणोऽर्कैर्द्वादश-
भिर्निघ्नो गुणितःसौरमासगणो जातः स मधोश्चैत्रादिगतमासै-
र्युक्तःसएवाधो द्वितीयस्थाने धार्यस्ततोऽधःस्थितो द्वाभ्यांगुणितो
रसाङ्गान्वितःषट्षष्टिभि६६युतःस्वकीयेनाभ्रखांकांशेन नवश-
तांशेन ९०० हीनः कार्यस्तस्माच्छरांकैः पञ्चषष्टिभि ६५
भागेऽपहृते यदाप्तं तेऽधिमासाःअनेन प्रकारेण कदाचित्पति-
तोऽधिमासो न लभ्यते कदाचिदपतितोऽपि लभ्यते तत्र स्पष्टो
ऽधिमासोऽधिमासःस्फुटः स्यादित्यनेन तन्निश्चयं कृत्वा तथा
गताधिमासेषु सैकता निरेकता वा कार्या । उक्तञ्च सिद्धान्त-