करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 30, कुल 155 में से
संदर्भ में पढ़ें( ३० ) करणकुतूहलम् । २
पुनर्दलीकृताभ्यां ततोऽखिलाभ्यामेवमसकृद्यावदविशेषःस्यात्ता-
वदिति, एवं भौमःस्पष्टतरः स्यात्, यैर्बुधादीनामपि
दलीकृताभ्यां प्रथमं फलाभ्यामिति कृतं तदसत् लक्ष्मी-
दासगणकवचनम्, अथ भौमगतौ विशेषः दलीकृताभ्यामिति
तथैवोक्तं सिद्धान्तशिरोमणौ- "स्यात्संस्कृतो मन्दफलेन
मध्यो मन्दस्फुटोऽस्माच्चलकेन्द्रपूर्वम् । विधाय शैघ्येन फलेन
चैवं खेटः स्फुटः स्यादसकृत्फलाभ्याम् ॥ दलीकृताभ्यां प्रथमं
फलाभ्यां ततोऽखिलाभ्यामसकृत्कुजस्तु। स्फुटौ रवीन्दू मृदुनैव
वेद्यौ शीघ्राख्यतुङ्गस्य तयोरभावात् " इत्यत्र दलीकृताभ्या-
मित्यादि यदुक्तं तत्कुजस्यैव न त्वन्येषामिति भौमः प्रथमाभ्यां
द्वाभ्यां फलाभ्यामर्धीकृताभ्यां संस्कार्य ततो द्वाभ्यां समग्राभ्यां
संस्कृत्य स्पष्टो भवति किन्त्वसकृत् कर्मणा यावत्स्थिरो
भवत्यपरे ग्रहाः समग्राभ्यां फलाभ्यां प्रथमाभ्यां च सकृदेव
स्पष्टाः भवन्ति ॥ १४ ॥
अथ गतिस्पष्टीकरणं सार्धेन्द्रवज्रोपजात्यर्द्धेनाह-
गतेः फलेनैवतु संस्कृता या मध्या गतिर्मन्दगतिर्भ-
वेत्सा। ग्रहस्य मन्दस्फुटभुक्तिर्वर्जिता स्वाशीघ्रके-
न्द्रस्य गतिर्भवेत्सा ॥ १५ ॥
द्राक्केन्द्रभुक्तिर्गुणिताशु चापभोगज्यया खान्धि ४०
गुणा च भक्ता। सप्ताग्रकरणेन चलोच्चभुक्तेः शोध्या
विशेषा स्फुटखेटभुक्तिः ॥ १६ ॥