करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 2, कुल 155 में से
संदर्भ में पढ़ें( २ ) करणकुतूहलम् । १
व्यता यस्मिंस्तत् प्रक्रियालाघवेन प्रस्फुटं सुगममित्यर्थवानेव
( अतः ) अस्यारम्भः । ननु सिद्धान्तादपि खेटकर्मैव मुख्यत्वेन
साध्यग्रहगणितमिति नाम्ना प्रसिद्धत्वात्तदस्य शास्त्रस्य किं
नामोच्यते । तत्र गणितशास्त्रं त्रिधा सिद्धान्ततन्त्रकरणत्वेन
तल्लक्षणम् । यत्र कल्पादेरारभ्य गताब्दमासदिनादेः सौरसावन-
चान्द्रमानान्यवगम्य सौरसावनगताहर्गणान्मध्यमादीनां कर्मो-
च्यते तत्सिद्धान्तलक्षणम् । वर्तमानयुगादेर्वर्षाण्येव ज्ञात्वोच्यते
तत्तन्त्रलक्षणम् । वर्तमानशकमध्येऽभीष्टदिनादारभ्यैवं ज्ञात्वो-
च्यते तत्करणलक्षणम् । ननु नमस्कारस्य विघ्नविघाते कथं
सामर्थ्यम् । उच्यते । नमस्कारपुण्येन विघ्नाः प्रहन्यन्त इति ।
यत्रापि च नमस्कारमन्तरेणापि निर्विघ्नशास्त्रपरिसमाप्तिर्दृश्यते
तत्रापि मानसिकप्रणिधानरूपोऽयं घटत एवेति सफलो नमस्का-
रव्यापारः किं च मङ्गलाभिधेयमिति तत्र मंगलमभिहितं नमो
वचनेनाभिधेयं चात्र शास्त्रे ग्रहाणां मध्यमस्पष्टादिस्वरूपं वाच्यं
प्रयोजनं च शिष्यानुग्रहः परमिदमैहिकमुक्तम् । पारत्रिकन्तु
सम्यक् ज्ञानप्रकाशत्वेनोभयोरपि निःश्रेयसावाप्तिरिति वासना
भाष्यतोऽवसेयः । काचिच्चतुरचित्तचमत्कारकारिणी युक्ति-
रन्तरा दरीदृश्यते । अथोदाहरणोपयोगित्वाद्ग्रंथारम्भे कल्पा-
दितो गताब्दादि लिख्यते तत्र कल्पगताब्दाः १९७२९४
८२८४ । अधिमासाः ७२७६६१६८९ । अवमगणः
१४५५२२५४५४ । उदये सावनोऽहर्गणः ७२०६३३६
००७४५२ ॥ १ ॥