सामग्री पर जाएँ
सर्वकोश
करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)

Karanakutuhalam of Bhaskaracharya with Commentary

भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा

DevanagariHindipublished155 पृष्ठ

पृष्ठ 134, कुल 155 में से

संदर्भ में पढ़ें
पृष्ठ 134

खण्डं शरयुतं विभक्तं गत्या विधोः षष्टिगुणमित्यनेन प्रकारेण
गतैष्यसाधनं कार्यं गतैष्यतालक्षणं प्राग्वत् ॥ १३ ॥ .
अथ सर्वखण्डकेषु शुद्धेषु पातसम्भवे स्थितिसाधन-
माह-
तथा शरावशेषकं खनागवेदतश्च्युतम् । नवघ्न-
न्त्यखण्डहद्दलीकृतं स्थितिस्तदा ॥ १४ ॥
येन शरेण पातसम्भवस्तच्छेषं खनागवेदतः ४८० च्युतं
संशोध्य यच्छेषं तन्नवघ्नं, नव ९ गुणं कार्यमन्त्यखण्डकेन
भाज्यमाप्तस्य फलस्य घट्यादिकस्यार्द्धं स्थितिः स्याद्यथा
मध्याह्नात्पूर्वतः परतश्च भवति पातमध्यात्पूर्वं स्पर्शः पातम-
ध्यात्पश्चान्मोक्षः ॥ १४ ॥
अथ प्रकारान्तरेण क्रान्तिसाम्ये स्थितिलक्षणमुष्णिहा
छन्दसाह तलक्षणमलङ्कारचूडामणिधियिके तथा छंद-
चूडामणौ उष्णिहा छन्दःसंगतौ स्याद्रजौ गुरुरिति वि-
वेकाद्ग्राह्यम् ।
मानयोगखण्डतो यावदल्पमन्तरम् ।
क्रान्तिसाम्यमेव तत्तावदेव हि स्थितिः ॥ १५ ॥
इतीह भास्करोदिते ग्रहागमे कुतूहले ।
विदग्धबुद्धिवल्लभे सकृच्च पातसाधनम् ॥ ९ ॥
चन्द्रसूर्ययोर्मानयोगार्द्धाद्बिम्बैक्यार्द्धाद्यावत् क्रान्त्यन्तरं
स्वल्पं भवति तावत् क्रान्तिसाम्यमेव ज्ञेयम् । ताव-
देव तस्य पातस्य स्थितिरस्तीति ज्ञेया, अङ्गुलाद्यविवेकार्द्धं