करणकुतूहलम् (भास्कराचार्य द्वितीय - सुमेध हिन्दी व्याख्या सहित पञ्चाङ्ग एवं ग्रह-गणित)
Karanakutuhalam of Bhaskaracharya with Commentary
भास्कराचार्य द्वितीय (टीकाकार: पं. रामचन्द्र पाण्डेय) द्वारा
पृष्ठ 130, कुल 155 में से
संदर्भ में पढ़ेंAn exact, line-by-line transcription of the Sanskrit text from the image into Unicode Devanagari:
कार्या, एवं शरखण्डकानामपि स्थापना धनर्णसंज्ञा चतुर्ष्व-
पि पदेषु कार्या ॥
अथ साधनमिन्द्रवज्रार्धेनाह-
चन्द्रस्य पातेन्दुयुतस्य भागास्तिथ्युद्धृताः स्युर्ग-
तखण्डकानि ॥ ६ ॥
सायनचन्द्रस्य तथा च सपातचन्द्रस्य सर्वस्य च ये
भागास्ते पृथक् पञ्चदशभिर्भाज्या लब्धमुभयत्र स्वस्व-
गतखण्डकानि ज्ञेयानि तेषां पूर्वोक्तधनर्णसंज्ञितस्थापित-
खण्डकेभ्यः गणनात् क्रमादुत्क्रमात्क्रमादुत्क्रमाच्च कार्या
शरस्य खण्डार्थे सपातचन्द्रः ६।११।५३।३० भागाः १९१
५३।३० पञ्चदश १५ भक्ता लब्धम् १२ शेषम् ११।५३।
३१ यथा सायनचन्द्रस्य ४।२९।५।२१ भागाः १४९।५।
२१ तिथिभक्ता लब्धम् ९ गतखण्डकानि शेषम् १४।५