कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
DevanagariHindipublished56 पृष्ठ
पृष्ठ 47, कुल 56 में से
संदर्भ में पढ़ेंपृष्ठ 47
श्रीमत्पुण्यानन्दाचार्यविरचितः ४३
‘ सत्यं ज्ञानमनन्तम् ’
इति श्रुतेः
‘ स्वसंविन्त्रिपुरा देवी……………।’,
इत्यागमाच्च, देव्याः
‘ बहु स्यां प्रजायेय ’
इति विहरणस्वभावायाः, श्रीचक्रतनोः – चक्रात्मिकायाः
सूक्ष्मपुर्यष्टकशरीरम् इत्यर्थः ॥ ४० ॥
तद्विषयवृत्तयस्ताः
सर्वज्ञादिस्वरूपमापन्नाः ।
अन्तर्दशारनिलया
लसन्ति शरदिन्दुसुन्दराकाराः ॥४१॥
तद्विषयवृत्तयः – वसुकोणनिकटवासिन्यः, ताः – वस्त्रा-
द्यात्मरूपरक्षणधारित्वेन प्रसिद्धाः, सर्वज्ञादिशक्तिदशकरूपं
प्राप्ताः, अन्तर्दशारनिलयाः-सर्वरक्षाकराभिधेयचक्रसमारूढाः
निगर्भयोगिन्यः, शरदिन्दुसुन्दराकाराः – स्वप्रकाशधवलाकृ-
तयो लसन्ति – प्रकाशन्ते ॥ ४१ ॥