कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 46, कुल 56 में से
संदर्भ में पढ़ें४२ कामकलाविलासः
भूतः परमशिव एव सकलतन्त्रं समवतारयत्, इति । एवं च
तत् मिथुनं कामकामेश्वरीरूपं - मित्रेश्वरी श्रीमदूर्ध्वदीपनाथः,
वज्रेश्वरी ज्येष्ठनाथः, भगमालिनी मित्रदेवनाथः, एवमादि-
मिथुनत्रयात्मना दिव्य-सिद्ध-मानवौघादिक्रमरूपेण विततं
मिथुनत्रयं विसृतमित्यर्थः ॥ ३९ ॥
इतः परम् आवरणदेवतास्वरूपभावौ वर्णयति ।
वसुकोणनिवासिन्यो
यास्ताः संध्यारुणा वशिन्याद्याः ।
पुर्यष्टकमेवेदं
चक्रतनोः संविदात्मनो देव्याः ॥४०॥
वसुकोणनिवासिन्यः - सर्वरोगहराख्यचक्रनिवासशीलाः
या वशिन्याद्या अष्ट शक्तयः पूर्णाहंभावानन्ददानसमर्थाः,
कथमत्र रोगहरत्वं नाम पूर्णाहंभावप्रदत्वमेव
'अपूर्णमन्यता व्याधिः कार्पण्यैकनिधानभूः । '
इत्युक्तेः । एवं-भूताः ताः संध्यारुणाः अरुणाकारा भासन्ते
इत्यर्थः । अत एव इदमष्टकोणचक्रं, संविदात्मनः - संवित्
ज्ञानमेव आत्मा स्वरूपं यस्याः सा