कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 48, कुल 56 में से
संदर्भ में पढ़ें४४ कामकलाविलासः
तद्वाह्यपङ्क्तिकोणेषु
योगिन्यः सर्वसिद्धिदाः पूर्वाः ।
देवीधीकर्मेन्द्रिय-
विषयमय्यो विशदवेशभूषाढ्याः ॥४२॥
तद्वाह्यपङ्क्तिकोणेषु तस्य सर्वरक्षाकरचक्रस्य बाह्यभूतेषु
उपरिस्थितेषु पङ्क्तिकोणेषु सर्वार्थसाधके चक्रे तस्य कोणात्मक-
त्वात् स्थिताः, योगिन्यः कुलकौलनामधेयाः, सर्वसिद्धिदाः,
पूर्वाः - सर्वसिद्धिप्रमुखा दश शक्तयः, देवीधीकर्मेन्द्रियविषय-
मय्यः - देव्यास्त्रिपुरायाः धीकर्मेन्द्रियाणि तेषां विषयास्तन्म-
य्यस्तत्स्वरूपाः, विशदवेशभूषाढ्याः - विशदाः शुभ्राकारा
वेशाश्च भूषाश्च तैराढ्याः । अयमर्थः - मन्त्रदेवतात्माभेदरूप-
सिद्धिदायिन्यः स्वच्छाकृतयः शुभ्राभरणा भान्ते इत्यर्थः
॥ ४२ ॥
भुवनारचक्रभवना
देवीमनुकरणविवरणस्फुरणाः ।
संध्यासवर्णवसनाः
संचिन्त्याः संप्रदाययोगिन्यः ॥ ४३ ॥