सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 77, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 77

ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ५१
अथ ग्रहाणां स्थानविशेषे शुभाशुभप्रवृत्ता ।
कामावनीनन्दनराशियाताः सितेन्दुपुत्रामरवन्द्यमानाः ।
अरिष्टदास्तेऽखिलजातकेषु सदाऽष्टमस्थः शनिरिष्टदः स्यात् ॥ ५२ ॥
इदानीं स्थानपरत्वेन केचिदरिष्टदा ग्रहा उच्यन्ते । सितेन्दुपुत्रामरवन्द्यमानाः = शुक्र-
बुध-बृहस्पतयः कामावनीनन्दनराशियाताः = सप्तम-चतुर्थ-पञ्चमभावेषु स्थिता भवन्ति
चेत्तदा ते अखिलजातकेषु = सकलेषु जातकेषु अरिष्टदाः कथिताः । अत्र शुक्रः सप्तमस्थो
बुधश्चतुर्थस्थो बृहस्पतिः पञ्चमस्थोऽरिष्टदो भवतीति बोद्धव्यम् । शनिरष्टमस्थः सदेष्टदः
स्यात् । अष्टमभावस्थितः शनिः शुभकरो भवति ।
एतद्विषये मन्त्रेश्वरः फलदीपिकायां स्वमतमुपन्यस्तवांस्तद्यथा—
धर्मे सूर्यः शीतगुर्बन्धुभावे शौर्ये भौमः पञ्चमे देवमन्त्री ।
कामे शुक्रश्चाष्टमे भानुपुत्रः कुर्यात्तस्य क्लेशमित्याहुरन्ये ॥ इति ॥
Notes—कामावनीनन्दनराशिगतानां शुक्रबुधगुरूणां भावजं फलं शुभंतथाष्टमस्थस्य
शनेर्भावफलमशुभमेव भवतीत्यपि चिन्त्यम् ॥ ५२ ॥
शुक्र, बुध और बृहस्पति क्रमसे सातवें, चौथे और पाँचवें भावमें प्राप्त हों तो प्रत्येक
जातक में अरिष्टकारक होते हैं। शनि अष्टम भावमें होने पर सर्वदा मनोरथ पूरा करता है ॥
अथ सूर्यादीनां स्वरूपाणि ।
प्रतापशाली चतुरस्रदेहः श्यामारुणाङ्गो मधुपिङ्गलाक्षः ।
पित्तात्मकः स्वल्पकचाभिरामो दिवाकरः सत्त्वगुणप्रधानः ॥ ५३ ॥
सञ्चारशीलो मृदुवाग्विवेकी शुभेक्षणश्चारुतरस्थिराङ्गः ॥
सदैव धीमांस्तनुवृत्तकायः कफानिलात्मा च सुधाकरः स्यात् ॥ ५४ ॥
क्रूरेक्षणस्तरुणमूर्त्तिरुदारशीलः पित्तात्मकः सुचपलः कृशमध्यदेशः ।
संरक्तगौररुचिरावयवः प्रतापी कामी तमोगुणरतस्तु धराकुमारः ॥ ५५ ॥
दूर्वादलद्युतितनुः स्फुटवाक् कृशाङ्गः स्वामी रजोगुणवतामतिहास्यलोलः ।
हानिप्रियो विपुलपित्तकफानिलात्मा सद्यः प्रतापविभवः शशजश्च विद्वान् ॥५६॥
बृहदुदरशरीरः पीतवर्णः कफात्मा सकलगुणसमेतः सर्वशास्त्राधिकारी ।
कपिलरुचिकचाक्षः सात्त्विकोऽतीव धीमान्, अलघुनृपतिचिह्नः श्रीधरो देवमन्त्री॥
असितकुटिलकेशः श्याम सौन्दर्यशाली समततरुचिराङ्गः सौम्यदृक् कामशीलः ।
अतिपवनकफात्मा राजसः श्रीनिधानः सुखबलसुगुणानामाकरश्चासुरेज्यः ॥ ५८ ॥
काठिन्यरोमावयवः कृशात्मा दूर्वासिताङ्गः कफमारुतात्मा ।
पीनद्विजश्चारुपिङ्गदृष्टिः सौरिस्तमो बुद्धिरतोऽलसः स्यात् ॥ ५६ ॥
इदानीं ग्रहाणां स्वरूपाण्युच्यन्ते । सूर्यः—चतुरस्रदेहः = चतुष्कोणशरीरो यावद्दीर्घस्ताव-
द्वेव विस्तर इति । अन्यत्स्पष्टम् ।
चन्द्रः—सञ्चारशीलः = चञ्चलः, तनुवृत्तकायः = लघुगोलाकारशरीरः । अन्यत्स्पष्टम् ।
कुजः—क्रूरेक्षणः = पापहक्, तरुणमूर्त्तिर्युवाशरीरः । अन्यत्स्पष्टम् ।
बुधः—दूर्वादलद्युतितनुः = दूर्वादलसदृशहरितवर्णशरीरः । हानिप्रियः = हानिरेव प्रिया
यस्य सः = नष्टप्रियः । अन्यत्स्पष्टम् ।
गुरुः—बृहदुदरशरीरः = बृहद्दीर्घमुदरं शरीरं च यस्य तथा । कपिलरुचिकचाक्षः =
कपिला रुचिः, कपिलाः कचाः = केशाः, कपिले अक्षिणी = नेत्रे च यस्य तथा । ईषत्पिङ्गलका-
न्तिवेशचक्षुष्मान् । अलघुनृपतिचिह्नः = महाराज लक्षणयुक्तः । अन्यत्स्पष्टम् ।