सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 519, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 519

स्त्री नानाशास्त्रकलाज्ञा, रसज्ञो, चतुरा, विख्याता, तेजस्विनी च भवति । विलग्नभवनात् =
जन्मलग्नात्, कामरथैः = सप्तमगतैः, अथवा धर्मस्थितैः = नवमगतैः, खेचरैः=यैः कैश्चित्
व्यादिग्रहैः व्यवस्थितैः, स्त्री प्रव्रज्यां=संन्यासमुपयाति । तत्र बलीयसो ग्रहस्य हेतुमूलां
प्रव्रज्यां प्राप्नुयात् । इमां किल जन्मसमये, पाणिग्रहे = विवाहे च चिन्तयेत् ।
उक्तञ्च - बलिभिर्बुधगुरुशुकैः शशाङ्कसहितैर्विलग्नगे शशिनि ।
स्त्री ब्रह्मवादिनी स्यादनेकशास्त्रेषु कुशला च ॥
क्रूरे जामित्रगते नवमे यदि खेचरो भवति नूनम् ।
आप्नोति प्रव्रज्यां पापग्रहसम्भवामबलाः ॥
जन्मकाले विवाहे च चिन्तायां वरणे तथा ।
चिन्त्यं स्त्रीणां तु यत्प्रोक्तं घटते तत्पतिष्वपि ॥ सारावल्याम् ॥ ४० ॥
चन्द्रमा कर्क लग्नमें हो, शुक्र, बुध गुरु तथा चन्द्रमा बली हों तो नाना प्रकारके शास्त्र
कला और रसज्ञानमें चतुरा, विख्यात तेजस्विनी हो । लग्नसे सप्तम वा नवम भावमें ग्रहों
से जन्म समय और विवाहके समय प्रव्रज्या योगका विचार करे ॥ ४० ॥
पापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन ।
उद्वाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतत् ॥४१॥
जन्मन्युद्वाहकाले च चिन्तायां वरणे तथा ।
स्त्रीणां चिन्ता बुधेनोक्ता घटते तत्पतिष्वपि ॥ ४२ ॥
इदानीं स्त्रीणां प्रव्रज्यायोगमाह - पापेऽस्त इति । स्त्रियाः जन्मलग्नात्, अस्ते = सप्तमे
भावे, पापे = पापग्रहे सति नवमगतस्य ग्रहस्य तुल्यां प्रव्रज्यां, युवतिः = स्त्री, असंशयेनो-
पैति । एतत् सकलं प्रव्रज्यादि उद्वाहे = विवाहे, वरणविधौ =कन्याया वैवाहिकवरणे, प्रदान-
काले, चिन्तायामपि विधेयं = विचारणीयमिति । तथोक्तञ्च गुणाकरेण-
अस्ते पापे धर्मग्य.तमग्रहोक्तां प्रव्रज्यां स्त्री याति निःसंशयेन ।
दानोद्वाहे प्रश्नकालेषु चैवं चिन्त्यं सर्वं हौरिकैस्तत्र युक्त्या ॥
अत्र प्रसङ्गात् ग्रहोक्ताः प्रव्रज्या उच्यन्ते-योगकर्तृषु ग्रहेषु यदि सूर्यो बलीयान्
स्यात्तदा तापसः, चन्द्रश्चेत्तदा कापालिकः, भौमे बलवति रक्तपटः बुधे एकदण्डी, गुरौ
त्रिदण्डी (भिक्षुः), शुक्रे चरकः, शनौ नग्नः, इति प्रव्रज्याः कथनीयाः । तथा स्वल्पजातके-
'तापस-वृद्धश्रावक-रक्तपटा-जीवि-भिक्षु-चरकाणाम्-निर्ग्रन्थानामिति' ॥
जन्मनीत्यादिः । सरलार्थ एवेति ॥ ४१-४२ ॥
पापग्रह सप्तममें हो तो नवम गत ग्रहके सदृश स्त्री प्रव्रज्याको प्राप्त हो इसमें सन्देह
नहीं है। इसलिये स्त्रीके विवाहमें, वरण विधिमें, कन्यादान कालमें, चिन्तामें यह सब
विचार करे ॥ ४१ ॥
स्त्रियोंके जन्म समयमें, विवाह कालमें, प्रश्नकालमें, वरणमें प्रव्रज्याका विचार करना
कहा है। यह प्रव्रज्या स्त्रीके पतिमें भी घटती है ॥ ४२ ॥
क्रूरेऽष्टमे वैधव्यता निधनेश्वरांशे यस्य स्थिते वयसि तस्य समे प्रदिष्टा ।
सत्स्वर्थगेषु मरणं स्वयमेव तस्याः कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ ॥४३॥
इदानीं स्त्रिया वैधव्ययोगं मरणयोगञ्चाह - क्रूर इति । क्रूरे = कस्मिंश्चित्पापे, अष्टमे
भावे व्यवस्थिते, निधनेश्वरः = अष्टमभावेशः यत्र तत्र यस्य ग्रहस्यांशे = नवांशे स्थितो
भवेत्, तस्य समे वयसि = तस्य ग्रहस्यायुर्दाये (दशायां) स्त्रियाः, वैधवता प्रदिष्टा=प-
तिमरणं वाच्यमिति । सत्स्विति । तदानीं (स्त्रीजन्मनि) सत्सु=शुभग्रहेषु, अर्थगेषु = द्वि-
४२ जा०